पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१० ईशान शिवगुरुदेवपद्धतौ [मन्त्रपाद: दरं रुद्रं रौद्रकारं (?) रुद्रस्यानन्दकरं तिस्रः कोट्योऽर्धकोटीश्च परमन्त्राणां वा संहरणमात्ममन्त्राणां सिद्धिकरमाप्यायनमतिमात्रपदाश्रयमग्निहोत्रपरायणं भस्म - चूर्णेन विद्याधराणां नियमनम् अङ्गारचूर्णेन लोहचूर्णेन वा राक्षसानां निपा- तनं, दैत्यानां नागानां च सादनं, विद्याधराणां त्रासनं महास्त्र मन्त्रविदारणम् । एकपादाय महादंष्ट्राय सहस्रशिरसोदराय सहस्रभुजजिहास्याय ब्रह्मनारायणो- त्कृष्टतेजाय हुं फट् आकड्ड | बलदेवं महेश्वरं गरुडं विष्णुं कुमारं ब्रह्माणमिन्द्रं चन्द्रमसमादित्यं यक्षं राक्षसं भूतं प्रेतं पिशाचं कूत्रमाण्डममिं यमं निऋतिं वरुणं वायुं कुबेरं धृतराष्ट्रं विरूपं विरूपाक्षं शङ्कुकर्ण बृंहत्कर्णं घण्टाकर्णं द्रोणकं गोकर्णं स्थूलकर्णं नन्दिकेश्वरं भृङ्किरिटिं नायकं विनायकं पाञ्चिकं दामकं लोहकं यष्टिदेवीमोङ्कारां कोट्टागरिकां दुर्गां कात्यायनीं कालीं यश- स्विनीं सुकालीं भद्रकालीं चुल्लकालीमाग्नेयीं वायव्यां शालिकावर्तीं रात्रिं शक्तिं शान्तिं शताक्षीं महाशान्ताक्षीमिन्द्राणीं ब्रह्माणीं कौमारीं महामारीं माहेश्वरीं वैष्णवीं सुभगां चामुण्डीं वाराही कौबेरीमैशानी गुल मुलु चुल जुलु मुलु धं हुं फट् | ओं काल फट् | ओं कालरूपाय फट् | ओं कालपाश- हस्त ! फट् | ओं कालरूप फट् | ओं कलविकरण फट् । औं बल फट् । ओं बलप्रमथन फट् । ओं विश्वरूप फट् | ओं छिन्द फट् ।ओंमिन्द फट् | ओं हन फट् | ओं हनत फट् | ॐ घातय फट् | ओं मोहय फट् । औं उच्चाटय फट् । औं संहर फट् | ओं संक्षिप फट् | ओं पातय फट् । ओं निपातय फट् | ओं यथा तत्त्वं पशुपतिना समन्वितं तथा निपातय स्वाहा फट् | खा त्र्यम्बकेन त्वङ्कार हुङ्कार ओं त्सं ओंहिं भक्षय हुं फट् स्वाहा | ओं अं हृदयाय नमः | ओं ईं शिरसे स्वाहा | ओं एं शिखायै वषट् | ओं ऐं कवचाय हुम् | ओं औं नेत्रत्रयाय वौषट् । ओं अः अस्त्राय फट् | ओं । अस्य ध्यानं च - उद्यत्प्रद्योतविद्युत्ततिहसितजपापुञ्जापञ्जारुणाङ्गो • रक्ताकल्पो मुखानां दशशतशिरसां चोग्रदंष्ट्रोज्ज्वलानाम् । बिभ्रद् दोष्णां सहस्रं प्रतिबदनवमद्वद्धिरात्तायुधानां नागैराभूषितो वः पशुपतिरवताज्जाटजूटाहितेंन्दुः ॥ ८३ ॥ १. ए. पाठ:. २. 'यणायोत्क', ३. 'न्यां' क. पाठ: