पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०४ ईशानशिवगुरुदेवपद्धतौ तिलमुगादिवस्तूनि सक्तून् लाजान् क्रमेण तु | एकैकशो रक्ततोये क्षिप्त्वा तेन ग्रहेण च ॥ २८ ॥ ग्रस्तं नीराज्य नीराज्य तेन रक्ताम्भसा ततः । तद् गृहं रक्कतोयं च नीत्वा न्यस्येत् तु चत्वरे ॥ २९ ॥ तद् गेहमध्ये रक्तोदं न्यस्येद् दिक्षु बलिं हरेत् । चरुशेषान्धसा युक्तं भूतक्रूरान्धसा तथा ॥ ३० ॥ ओं नियाकषा षौद्राः सन्तोऽसन्तः सदसन्तो विरूपा विश्वरूपा घोर- रूपा मृगास्या विहगाननाः पुष्टिकृतोऽपुष्टिकृतः कामदाश्च बलिमिच्छन्ति, तेभ्यो द्रुतेभ्यः सगणेभ्यः सर्वेभ्यो भूतेभ्यो नमो नमः | इत्यनेन बर्लि दिक्षु विकिरेत् सर्वशान्तये । सर्वग्रहगृहीतानां मोक्षस्त्वेवं भविष्यति ॥ ३१ ॥ बह्निगेहं लिखेद् भूमौ रक्तेन रजसास्य तु । कोणेषु ब्रीजमाग्नेय्यां मध्ये तु प्रणवं लिखेत् ॥ ३२ ॥ [मपाद: नवं शरावं तन्मध्ये कपिलाज्यप्रपूरितम् । सपद्मसूत्रवर्त्त्या तु दीपं प्रज्वाल्य तत् पुनः घटेनाच्छाद्य तत्पृष्ठे यन्त्रं चिन्तामणि लिखेत् । जपापुष्पो न (?) तत्रस्थे ग्रस्ते चिन्तामणिं लिखेत् ॥ ३४ ॥ वैकङ्कतस्य दण्डानि त्रीणि ग्रस्तायतानि तु | हस्तस्थूलानि गर्तस्य त्रिकोणेषु निवेश्य तु ॥ ३५ ॥ ग्रस्तं संस्थाप्य तन्मध्ये रक्तस्रग्भिस्तु वेष्टयेत् । तेषामुपर्यक्षतरुकारस्करमयं शुभम् ॥ ३६ ॥ प्रासादं तु विनिर्माय तस्योपरि शरावके । प्रस्थत्रयाज्यसंपूर्णे दीपानां तु सहस्रकम् ॥ ३७ ॥ प्रज्वालय भूतक्रूरेण ग्रस्तं नीराज्य तेन तु । स्यमाणेन मन्त्रेण दशदिक्षु बलिं हरेत् ॥ ३८ ॥ नमः भ्यो नमः पूटकृद्भ्यः सर्वेभ्योऽरिष्टकृद्ध्यः सद्भ्योऽसद्भ्यः सदसद्भ्यः सतगणेभ्यो नमो नमः । १. 'णि पाठ: