पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ लिखित्वा भस्मना तस्मिन् ग्रस्तं संस्थाप्य मन्त्रतः । अनेनाष्टोत्तरशतं जपित्वाम्भो मुखेऽस्य वै ॥ ४ ॥ प्रक्षिपेच्च जपन् क्रुद्धो ग्रह आविश्य मुञ्चति । रज्ज्वा जपितयानेन स्तम्भं बद्ध्वा स बध्यते ॥ ५ ॥ पिष्टप्रतिकृतिं कृत्वा तत्रावाह्य तु तं ग्रहम् । प्राणप्रतिष्ठां कृत्वा तु क्षुरेणैनं विदारयेत् ॥ ६ ॥ छेदयेच्च त्रिशूलेन मर्मसु क्षतजं स्रवेत् । एतावता ग्रहग्रस्तान् न मुञ्चति यदा तदा ॥ ७ ॥ छिन्नां प्रतिकृतिं राजियुक्तां कुण्डे जुहोतु च । . सहस्रं स ग्रहो दग्धः परित्यज्य पलायति ॥ ८ ॥ मन्त्रेणानेन जपितैः समाषतिलसर्षपैः । बहिभूतैस्तु शतशस्ताडितो मुञ्चति ग्रहः ॥ ९ ॥ सिद्धार्थैः सप्तजपितैर्ग्रस्तं सम्भ्राम्य वाञ्छिते । सङ्क्रामयति तद् भूतं सद्य एव न संशयः ॥ १० ॥ हृच्चण्डासिपदं धारा वायुः किलिपदद्वयम् । गच्छद्वयं नमःशब्दो महाकायाभिजायया ॥ ११ ॥ अनेन तिलपिष्टेन लेपादू भीतो भवेद् ग्रहः । हृदयान्ते भगवति षुद्रशाळिफ वाचाळि भवेश्वष चालि नन्दश्विर काळि इन्द्रकाळि ब्रह्मकाळि परेतकाळि भद्रकाळि वज्रकाळि वर पुर हर तुरु घर आवेशय खर्ज गर्ज ग्रह फण फालेश्वरि । श्रवणधारिणी | ओं को प्रों अदः चामुण्डेश्वरि ! ठठ ।

प्रणवस्थितशूलाग्रमध्ये नृहरिबीजयुक् ॥ १२ ॥ पार्श्वे शूलाग्रयोः शक्तिमिष्ट्वा ग्रस्तं च तत्स्थितम् । दह्यन्तमग्निना ध्यायन् जपेदाविश्य मुञ्चति ॥ १३ ॥ लिखेद् ग्रहं क्षितौ मन्त्री विषामाङ्गारकेण तम् | जपितैर्निम्बकालैस्तु मर्मदेशेषु वेधयेत् ॥ १४ ॥ १. 'या' २. 'सि शरण' क. पाठ:. [सम्पाद