पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूततन्त्राधिकारः] पूर्वार्धे त्रिचत्वारिंशः पटलः । साध्यावेतौ ग्रहौ विद्याद् बलिकामरतिप्रियौ । महापातकलेपैश्च स्त्रीगोगुरुवधादिभिः ॥ ३३ ॥ श्रीनीलकण्ठपादाब्जे शप्तः सत्यं वदेद् ग्रहः । ग्रहं ग्रहेप्सितं चापि ज्ञात्वा तदनुरूपतः ॥ ३४ ॥ कृतात्मरक्षणो मन्त्री कुर्याद् ग्रहचिकित्सितम् । पूर्वं ग्रहाणामभिवाञ्छितार्थैर्बलिप्रदानैस्तनुताच्चिकित्साम् । यदा न मुश्चेन्मृदुभिः प्रयोगैस्तश्चिकित्सां विदधातु रौद्रीम् ॥ ३५ ॥ आलेपनैर्धूपविशेषबद्धैः क्रूरैस्तथा भर्त्सनताडनैश्च । तत्पुत्तलीच्छेदनवेधहोमैः कुर्याद् विमोक्षं क्रमशो ग्रहाणाम् || ३६३ ।। इति श्रीमदीशान शिव गुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे ग्रहचेष्टापटलो द्विचत्वारिंशः । अथ त्रिचत्वारिंशः पटलः । हृदयं भगवच्छन्दो षुद्राशगता फचुत मन्दरकुसुम षट्पदवज्रतुण्ड नीलाञ्जनसमप्रभ इदं भूतं हनं विलिपन्तं ख ख हुं फट् ठठ । अनेन माषकुसरैर्जपित्वा ग्रस्तताडनात् । तं मुञ्चन्ति ग्रहाः स्वैक्यं रुद्रध्यानेन तत्क्षणात् ॥ १ ॥ हृदयान्ते भगवते फवेश्चाषाश नमः कासश महेश्वराय अमरि भ्रामय सूकरि भक्षय उठ । माषाननेन संमन्त्र्य भक्षणान्मुञ्चति ग्रहः । नमो भगवते षुद्राश महाभैरव देवाय नर्तय मोटय वरगय क्रोडय अंग्रह चण्ड हुं फट् ठठ | भूतप्रेतपिशाचादीञ् जपाद्यैर्मोचयेन्मनुः ॥ २ ॥ तारं हृच्चण्डशब्दश्च क्रोधरुद्राय टुषु पुषु भूतसमये तिष्ठ उठ । १. क. ग. पाठः. सप्तवारं जपित्वेमं शिखां मस्तस्य बन्धयेत् । ग्रहस्तु समये तिष्ठेद् बहिवायुपुरं पुर्नैः ॥ ३ ॥ 'न लिपन्त ख', २. 'भ्रू', ३. 'षु भू' ख. पाठ:. . ४.