पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रहचेष्टा ] पूर्वार्धे द्विचत्वारिंशः पटलः । सन्ध्यासु प्रथमाभोग्यामभ्यक्तामवमानिताम् । ग्रहा गृह्णन्तीति यावत् । देवताविप्रमहतां निन्दया पूर्ववैरतः ॥ ८॥ ऋणात् कर्मविपाकाच्च ग्रहा गृह्णन्ति नान्यथा | दुर्बलो निर्निमीलाक्षो निस्तेजो बहुभाषिता ॥ ९ ॥ स्नातः सुगन्धस्रग्वस्त्रः सौम्यो हृष्टः सुरग्रही । दुष्टात्मा निर्भयो दृप्तो धर्मदेवद्विजान् द्विषन् ॥ १० ॥ बह्वाशी प्रहसन् सर्वान् सकम्पाङ्गोऽसुरग्रही गुलपानीय दुग्धादिवाञ्छया सृकिणी लिहन् ॥ ११ ॥ भूमौ प्रसर्पन् रक्ताक्षः क्रोडी नागग्रहातुरः । रक्तमाल्यादिगन्धेच्छुः संरक्तनयनातुरः || १२ || अक्रोधनस्तूर्णगामी गम्भीरो यक्षपीडितः । स्रग्गन्धगीतवाद्येच्छुः क्रीडन् गन्धर्वपीडितः ॥ १३ ॥ निर्लज्जो मद्यमांसासृक्प्रियोऽशौचश्च राक्षसः | पिण्डोदकक्रियां कुर्वन् मांसेच्छुश्च पितृगग्रही ॥ १४ ॥ जानुस्थाधोमुखः स्मेर: समुष्टिर्हेढ्गो ग्रही । असङ्गतं ब्रुवन् वेपन् शीताङ्गस्तिर्यगीक्षणः ॥ १५ ॥ शुद्धाङ्गो बहुभुक् शुद्धो भस्मग्रहनिपीडितः । खिन्नाङ्गो मेषगन्धी च निर्मर्यादश्चलेक्षणः ॥ १६ ॥ बह्वाशी चिन्तितं जानन् मांसार्थी योनिजग्रही | निश्शौचो मलपङ्काढ्यो भस्मशायी हसन् रुदन् |॥ १७ ॥ स्त्रीद्विडश्नन् सर्दैवान्यान् भीषयन् कश्मलग्रही । नृत्यन् हसंधशुष्काङ्गो बह्वाशी स्वाङ्गमञ्जनः ॥ १८ ॥ बहुप्रलापो विज्ञेयः प्रलापग्रहपीडितः । शुल्कारवान् वमन् दन्तान् कषन् वैनायकुत्रही ॥ १९ ॥ १. 'षां', २. 'द्', ३. 'दुख पाठः ४' 'हो ॥ नूखन' क. पाठः,