पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इचिकित्सा) फट् ठठ । पूर्वार्धे एकचत्वारिंशः पटलः । शिखायां वा गले कट्यां धारयेत् स्कन्दमेखलाम् । बालो बालमहर्वापि सर्पाद्यैर्वा न बाध्यते || १६ || विष्णुस्ते पूर्वतः पातु रुद्रो रक्षतु दक्षिणम् । ब्रह्मा तु पश्चिमे पायात् स्कन्दो रक्षत्वथोत्तरम् ॥ ९७ ॥ उपरिष्टात् तथा सूर्यः पातु त्वाधश्च वासुकिः । पायाच्च त्वामधो वत्स! शिष्टाः काष्ठाः समीरणः ॥ ९८ ॥ स्वस्ति करोतु भगवान् पिनाकी वृषभध्वजः । गावो रक्षन्तु सर्वत्र भूमिः पातु सदा शिवा ॥ ९९ ॥ रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ १०० ॥ एकदंष्ट्राग्रविधृता धारयत्यवनी जगत् । बराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥ १०१ ॥ नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः । नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ १०२ ॥ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रित्रिक्रमः क्रमक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ १०३ ॥ शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः | गुह्यं सजठरं विष्णुर्जङ्घे पादौ जनार्दनः ॥ १०४ ॥ मुखं बाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वस्तव नारायणोऽव्ययः ॥ १०५ ॥ शङ्खचक्रगदाखड्गशार्ङ्गनादहताः क्षयम् । गच्छन्तु प्रेतकूश्माण्डा राक्षसा ये तवाहिताः ॥ १०६ ।। त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वा महीधरः ॥ १०७ ॥ अनेन तु सदा रक्षां नन्दगोपस्तदाकरोत् । कृष्णस्यैतज्जपन् स्पर्शाद् रक्षां स्यादक्षता शिशोः ॥ १०८ ॥ 00