पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उठ । ईशान शिवगुरुदेवपद्धतौ वर्षे चाष्टादशे बालं कुमारी नाम बाधते । एवं बालग्रहाः प्रोक्ताः सर्वा देव्यस्तु मातरः ॥ ८९ ॥ कुमारीशब्दपूर्वं तु नमोन्तं स्वस्वनामभिः । सर्वासां च बलिः क्षेप्यो मन्त्रांश्चैतान् जपेदपि ॥ ९० ।। ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणस्तथा । रक्षन्तु त्वरिता बालं मुञ्चन्तु च कुमारकम् ।। ९१ ।। [मन्त्रपाद: प्रक्षिप्तबलिनानेन त्रिधा नीराजयेच्छिशुम् । बलिप्रदानस्यान्ते तु जपेन्मन्त्रं स्पृशन् शिशुम् ॥ १२ ॥ नमः सर्वमातॄणां हृदयमोटक भञ्ज कड्ढ स्फोटय स्फुर गृढ आकर्षय त्रोटय एवं सिद्धिं ज्ञापयति हर निर्दोषं कुरु बालकं ठठ | बलिप्रदानस्यान्ते तु मन्त्रमेनमुदीरयेत् । कूश्माण्डि यक्षि भगवति चामुण्डे मुञ्च दह बालाद् गच्छ ठठ । तिलराजिघृतैर्होमं कुर्यात् तद्ग्रहमुक्तये || ९३ || ओं चामुण्डे नमो विद्ये हुं ह्रीं दुष्टग्रहा हुं तत्र गच्छन्तु गुह्यका यत्र स्थानं कुरु रुद्रो ज्ञापयति ठठ । अनेन प्रथमदिनादिसप्तदशवर्षान्तं बलिप्रं- क्षेपस्यान्तेऽश्वत्थोदुम्बरबटबिल्वपलाशपल्लवान् कुम्भजले प्रक्षिप्यानेन मन्त्रेण स्नापयेत् । क्षूं रक्ष महादेव ! `नीलग्रीव ! जटाधर ! ग्रहैस्तु सहितो रक्ष मुञ्च कुमारकम् । अनेन राजिकालेपो धूपश्चैव ग्रहापहः । आख्याविदर्भिते भूर्जे बन्धो बालग्रहार्तिजित् ॥ ९४ ॥ हस्तो माकान्तकौ साक्षौ वीप्सितौ तारपूर्वकौ । हि चिनि भूचनि भूततटि विचणि विरज नारायणि ! उमे ! दण्ड- हस्ते! रौद्रि! महेश्वरि ! महामुखि ! व्यालमुखि ! शङ्कुकर्णे! शुष्कजङ्घे ! अलम्बुषे ! हन सर्वग्रहनाशिनि ! खल सर्वाङ्गशोणितं यन्निरीक्षसि मनसा देवि ! मम मोहनं मोहय । . रुद्रस्य हृदये जाता रुद्रस्य हृदये स्थिता । रुद्रे रौद्रेण रूपेण त्वं देवि! एहि रक्ष माम् ॥ ९५॥ १. 'द्धो', २. 'नि भूतिविचणि विरज' ३. 'दू' . ग पाठ: