पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे एकचत्वारिंशः पटलः । गृह्णाति नेत्रयोरान्ध्यं नास्ति तत्र प्रतिक्रिया । द्वादशे मासि चपला तच्चेष्टा श्वासपूर्विका ॥ ७६ ॥ द्वितीये वत्सरे तद्वद् यातना पैतनादिकम् । चेष्टितं केशगोदन्तधूपः पञ्चदलाम्बुमि ॥ ७७ ॥ स्नानं तृतीयवर्षे तु रोदिनी रोदनादिकम् । चेष्टा चतुर्थे वर्षे तु चटका वेदनादिकम् || ७८ ॥ चेष्टितं पिञ्छरोमाद्यैर्धूपस्तः विधीयते । पञ्चमे चञ्चला वर्षे गात्रभङ्गादिरूपिणी ॥ ७९ ॥ चेष्टात्र धावनी वर्षे षष्ठे चेष्टातिमूत्रता राजीलशुनकै धूपः स्नानं पञ्चदलाम्बुभिः ॥ ८ ॥ यमुना सप्तमे वर्षे निराहारत्वकारिणी । अष्टमे हायने बालं बाधते जातवेदसी ॥ ८१ ॥ नवमे कालिनी वर्षे करस्फोटादिकारिणी । ओं मुञ्च पच दह आगच्छ बालिके ठठ । तिलैरनेन मन्त्रेण हुत्वा तद् धूपयेदपि ॥ ८२ ॥ कलहंसी च दशमे वत्सरे ज्वरकारिणी । सिद्धार्थकुष्ठलशुनैर्लेपो गोरोमसंयुतैः ॥ ८३ ॥ पिचुमन्ददलैर्धूपः स्यादेकादशवर्षके । बाल चिकित्सा ] देवदूती सदा भूरिक्षुत्पिपासादिकारिणी ॥ ८४ || पलिता द्वादशे वर्षे नेत्ररोगादिकारिका । तथा त्रयोदशे वर्षे वायवी तत्र चेष्टितम् ॥ ८५ ॥ अङ्गसादादिकं तत्र यक्षिणी बाघते शिशुम् । मही चतुर्दशे वर्षे ज्वरशूलादिकारिणी || ८६ ॥ ग्रही च मुञ्जकमुखी वर्षे पञ्चदशे मता । चिकित्सा नास्ति वर्षे तु षोडशे वानरी स्मृता ।। ८७ ॥ तथा सप्तदशे वर्षे ग्रही बन्धवती सदा । गात्रतोदमनोमोहप्रलापादिकरी मता ॥ ८८ ॥ १. ' 'पा', २. 'म् । चेष्ठितं' ख. पाठः, ३. 'णी । ग्रही च मुञ्ज' क, प