पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खड्गरावणबालचिकित्सा] पूर्वार्धे एकचत्वारिंशः पटलः । वायव्ये बलिमुद्रास्य वनपयेच्छान्तिवारिभिः । सप्तमे त्वथ शुष्काङ्गी चेष्टा कम्पश्च रोदनम् ॥ ३० ॥ प्राग्वत् पुत्तलिकादीनि द्रव्याण्यत्रापि कल्पयेत् । ओं नमो भगवते खड्गरावणाय त्रैलोक्यविद्रावणाय हन गृह्ण मुञ्च बालकं ठठ | अनेन तु बलिं क्षिप्त्वा हरेददितिगोचरे ॥ ३१ ॥ शान्त्युदकेन स्नपयेच्च । अष्टमंत्रितये बालं ग्रही गृह्णाति ज़ुम्भिको । मुष्टिबन्धो ज्वरः स्वेदश्चेष्टा गगनवीक्षणम् ॥ ३२ ॥ द्रव्याणि पुत्तल्यादीनि चतुर्वर्णं चतुर्ध्वजम् | ओं नमो भगवते खड्गरावणाय दीप्तप्रज्वलितहस्ताय हन दह मुञ्च बालकं ठठ । दत्त्वानेन बलिं प्राग्वद् धूपयेत् स्नपयेच्च तम् ॥ ३३ ॥ अञ्जिका नाम नवमत्रये चेष्टा ज्वरस्तथा । मुष्टिबन्धोऽक्षिरोगश्च पुत्तल्यादीनि पूर्ववत् ॥ ३४ ॥ शष्कुलीपर्पटीयुक्तं सन्ध्याकाले तु पश्चिमे । ओं नमो भगवते खड्गरावणाय ज्यलितहस्ताय हन गृह्ण मुख बालकं ठठ | रेवती नाम दशमत्रये कम्पज्वरोद्गमौ ॥ ३५ ॥ रोदनं पुत्तलीकाद्यैर्वृक्षमूले बलिं हरेत् । ओं नमो भगवते खड्गरावणाय दीर्घदर्शनाय हन गृह्ण मुञ्च बालकं ठठ । निर्माल्यरांज्या संधूप्य स्नपयेच्चापि पूर्ववत् ॥ ३१ ॥ एकादशत्रये तद्वच्छिलाख्या तु ज्वरागमः | गात्रोद्वेगो मुष्टिबन्धः प्राग्वत् पुत्तलिकादिभिः ॥ ३७ ॥ ओ नमो भगवते खड्गरावणायं हन गृह्ण मुञ्च बालकं ठठ उत्तरस्यां यथापूर्वं बलिं निर्हत्य धूपयेत् । १. 'ता' ख. पाठ:.