पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९० ईशानशिवगुरुदेवपद्धतौ ज्वरश्च गात्रभङ्गश्च गलभङ्गोर्ध्ववीक्षणम् । प्राग्वत् पुत्तलिकां कृत्वा तिलचूर्णोदनौ दधि ॥ १९ ॥

मत्स्यमांससुरा पूपगन्धधूपध्वजादिभिः ।

वीरभद्रादिमातृभ्यः पूतनायै च पूर्ववत् ॥ २० ॥ [मन्त्रपादः ओं नमो भगवते खड्गरावणायातिशौर्याय हन गृह मुञ्च बा- लकं ठठ | अनेन तु बलिं क्षिप्त्वा पश्चिमायां तु निर्हरेत् ।

सिद्धार्थशिवनिर्माल्य निम्बपत्रं घृतान्वितम् ॥ २१ ॥
अजशृङ्गेण धूप्यैनं स्नपयेच्छान्तिवारिभिः । 

चतुर्थत्रितये बालं गृह्णाति मुखमण्डिका ॥ २२ ॥

गात्रस्वेदो ज्वरः श्वासो मुष्टिबन्धोऽन्नवर्जनम् ।

प्राग्वत् पुत्तलिकादीनि द्रव्याण्यत्रापि कल्पयेत् ॥ २३ ॥ वीरभद्रादिमातृभ्यः पूर्ववन्निक्षिपेद् बलिम् । ओंनमो भगवते खड्गरावणाय दीर्घभुजाय हन गृह्न मुञ्च बा लकं ठठ | अनेन चापि मन्त्रेण क्षिप्त्वा याम्यां बलिं नयेत् ॥ २४ ॥ पञ्चमे तु विलालाख्या ग्रही गृह्णाति बालकम् । ज्वराक्षिरोगौ तच्चेष्टा मुष्टिबन्धश्च पूर्ववत् ॥ २५ ॥ पुसल्यादीनि सर्वाणि प्राग्वद् बलिनिवेदनम् । वीरभद्रादिमातृभ्यः पूर्ववन्निक्षिपेद् बलिम् ॥ २६ ॥ ओं नमो भगवते खड्गरावणाय पूर्णाय नमः ठठ । क्षिप्त्वानेन बलिं तं चाप्यैशान्यां निर्हरेद् बलिम् ।। २७ ॥ धूपयेन्निम्बपत्रैस्तु घृतगुग्गुलुमिश्रितैः । षष्ठत्रये शकुनिका चेष्टोर्ध्वालोकनं ज्वरः ॥ २८ ॥ प्राग्वत् पुत्तलिकादीनि विशेषो मधुशोणिते । . मन्त्रस्तु पञ्चमः प्रोक्तो धूपश्चापि पुरोदितः ॥ २९ ॥