पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खड्गरावणबाल चिकित्सा] पूर्वार्धे एकचत्वारिंशः पटलः । इष्ट्वा प्राग्याम्यवारुण्यसौम्ये ब्राह्मयादिमातृकाः । बाराह्याद्याश्च वह्नयादिकोणेष्वैशे तु चण्डिकाम् || ८ ॥ अवाह्याभ्यर्च्य मध्ये तु वीरभद्रं गणेश्वरम् । यथोद्दिष्टबलिद्रव्यचतुर्भागद्विभागतः ॥ ९ ॥ वीरभद्रादिमातृभ्यो बोधिपत्रेषु वै बलिम् । पृथक् पृथक् तारपूर्वं नमोन्तं स्वांख्यया क्षिपेत् ॥ १० ॥ लकं ठठ | वक्ष्यमाणेन मन्त्रेण तत्रेष्ट्वा खड्गरावणम् । नन्दां च स्वाख्यया शान्तां तयोरपि बलिं क्षिपेत् ॥ ११ ॥ + ओं नमो भगवते खड्गरावणाय दीर्घदर्शनाय हन गृढ मुञ्च बा- रुकं ठठ ! इति क्षेप्यो बस्तेिन शिशुं नीराज्य निर्हरेत् । नन्दायै तु स्वनाम्नैव प्रणवादिनमोन्तकम् ॥ १२ ॥ पूर्वस्यां दिशि पश्चात् तु शिवनिर्माल्यसषेपैः । निम्बपत्राज्यमिलितं धूपयेच्च शिशोस्तनुम् ॥ १३ ॥ न्यग्रोधोदुम्बराश्वत्थबिल्वपालाशपल्लवैः । कुम्भोदरस्थितैस्तैस्तु स्नपयेत् प्रोक्षयीत वा ॥ १४ ॥ एवं दिनत्रयं कृत्वा चतुर्थे स्नपयेत् तथा । द्वितीयत्रितये बालं सुनन्दा नाम बाधते ॥ १५ ॥ चेष्टा तस्याक्षिरोगश्च सङ्कोचो हस्तपादयोः । प्राग्वत् पुत्तलिकाद्यं तु कृत्वा द्रव्यैः पुरोदितैः ॥ १६ ॥ वीरभद्रादिमातृभ्यः खड्गरावणविघ्नयोः । दिनादिमातृकायै च सर्वत्रायं बलिक्रमः ॥ १७ ॥ सूर्यास्तमयवेलायामुदीच्यां निर्हरेद् बलिम् । २८९ ओं नमो भगवते खड्गरावणाय दीर्घदर्शनाय हन गृह मुञ्च वा ठठ। तृतीयत्रितये बालं ग्रही गृह्णाति पूतना ॥ १८ ॥ NX