पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८६ ईशानशिवगुरुदेवपद्धतौ तार्थ्यात्मानेन मनुना स्थावराणां विषं हरेत् । विस्मयाय स्वयं वाद्यादन्यं वाप्यांशयेत् तु तत् ।। १५१ ॥ स्थावरे तु विषे भुक्ते वान्तं शीताम्बुसेचितम् । मध्वाज्यमसमं पीत्वा कुर्यात् सम्यग् विरेचनम् ॥ १५२ ॥ निशाद्वयं च सिन्धूत्थं साज्यक्षौद्रं तु वा पिबेत् । सिताक्षौद्रयुतं ताम्रचूर्ण स्वर्णं तु (वा) लिहेत् || १५३ ॥ फारस्करविषं हन्ति जम्बूपलवजो रसः । रम्भापुष्परसं तद्वत् कपित्थच्छदनाम्बु च ॥ १५४ ।। फणीतकस्य शुण्ठ्यम्बुपानाच्छिन्नारसोऽपि च । स्नुहिस्नुक्चूतपुष्पाणि शृङ्गिक्ष्वेलहराणि च ।। १५५ || चूर्णस्य तैलकबलमङ्गारस्य निशारसः । कदलीपुष्पकासघ्नौ स्त्रीदत्तौषधिनाशनौ ॥ १५६ ।। भल्लातं ब्रह्मवृक्षाम्बु गव्यं च दधिसम्भवम् । दशधौतं विलिप्तं तद् विषं प्रशमयेद् व्रणम् || १५७ ॥ अज्झटा चणकं हन्यादार्द्रकं लाङ्गलीविषम् | नीली लोध्रसमा पिष्टा पानाद्यैः स्थावराणि तु ।। १५८ ।। हन्याद् विषाणि सर्वाणि खार्या गोपयसाथ ना | शिरीषकुसुमं हन्ति कोद्रवोत्थमुपद्रवम् ॥ १५९ ॥ पलाशकूश्माण्डरसो मदकोद्र्वनाशनः । रम्भाफलस्य मरिचं पानसस्य च नागरम् ॥ १६ ॥ नालिकेरस्य चूताम्लं वरभृङ्गस्य कुण्डली । नालीकेराम्बुजम्बीरशुक्तान्यतमयोजिते || १६१ ।। कर्पूरे तद्विषहरो भृङ्गराजरसः स्मृतः । सशुक्तशालिमूलस्याप्युशीरं विषनाशनम् ॥ १६२ ॥ नीलिका चाश्वगन्धा च माननस्यादियोजिता | निःशेषं स्थावरविषं संहरेवते यथा ॥ १६३ ।। ग. पाठः ख. पाठ'