पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ कपित्थस्य कपालेन प्रलेपो मक्षिकापहः । वेगानीलिकयोः पत्रैः समूलं तण्डुलीयकम् ॥ १२९ ॥ पिष्ट्वा प्रलेपनं कुर्याच्चतुष्पाद्विषनाशनम् । गृहधूमं समरिचं वचां रात्रिं च काञ्चिके || १३० ॥ पिष्ट्वा प्रलेपपानाद्यैः सर्वकीटविषापहम् । शिप्रुकाकादनीमूलं समूलं तण्डुलीयकम् ॥ १३१ ॥ पिष्ट्वा क्षीरेण लेपाद्यैः कीटानां विषनाशनम् । कटुतुम्बिनिशादेवदालीबीजानि लाङ्गलीम् ॥ १३२ ॥ पिष्ट्वा शुक्तेन तल्लेपात् सर्वकीटविषं हरेत् । श्वेतापराजितामूलं पत्रपुष्पं च नागरम् ।। १३३ ॥ व्योषं च काश्चिके पिष्टं स्यात् क्षुद्रविषनाशनम् | हृदयान्ते भगवते विष्णवे सरवीप्सितम् || १३४ || वसेति च स वर्मास्त्रे ठयुग्मं सर्वकीट जित् । मातृकापद्ममध्यस्थमन्त्यमौबिन्दुवह्नियुक् || १३५ ॥ अलर्काटिभटेशक्षराज मे शरणाधिप अलर्कदष्टमेतन्मे निर्विषं कुरु मा चिराय उठ | दष्टं श्वानं स्वमात्मानं सिंहं मध्ये च सागरम् | क्षुब्धं ध्यात्वा द्वयोभत्या धावन्तं दष्टेकुकुरम् ॥ १३६ ॥ निषिच्य मन्त्रं तु जपेत् कुक्कुराणां विषापहम् । यष्टिकुस्तुम्बुरुव्योषखगुप्ताबीजकुष्ठयुक् ॥ १३७ ॥ प्रियङ्गवश्चैकभागाः कर्णिकारं द्विभागिकम् । पयोगुलान्वितं पीतमलर्कगरलापहम् ॥ १३८ ॥ कोशातकीकुटचयोर्बीजान्यर्कशिफारसः । जात्याः क्षीरान्वितं पीतं सद्यः श्वविषनाशनम् ॥ १३९ ॥ H यष्टिव्योषगुलक्षीरं पीतं च विषनाशनम् । कुस्तुम्बुरु स्वयंगुप्ताथ रात्रि: कटुमागधी || १४० ॥ १. 'डि' क. ग. पाठः,