पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाविधविषचिकित्सा] पूर्वार्धे चत्वारिंशः पटलः । वचालोघ्राश्वगन्धाः स्नुक्क्षीरे हयविषापहाः । पानालेपनादिति यावत् । १. इन्द्रवल्लीं निशां पुङ्खां (?) जीर्णं पर्ण च पानसम् ॥ १.१७ ।। द्रोणस्वरसतैलाभ्यां किञ्चिच्चूर्णयुतं पिबेत् । गर्दभश्वविषघ्नं स्यात् पाननस्यविलेपनैः ॥ ११८ । कपित्थबिल्वकार्काणां बीजानि मरिचं निशे । पिष्ट्वा पानादिकं सद्यो गृहगौलिविषं हरेत् ।। ११९ ॥ करञ्जशिग्रुकापित्थबीजं गौलीविषे हिंतम् । निशाज्यशारिबालेपो जलूकानां विषापहः ॥ १२० ॥ व्योषैः शिरीषपञ्चाङ्गं हन्याच्छतपदीविषम् । दीपतैलं शतपदीदंशस्योपरि पातयेत् ॥ १२१ ॥ तद्विषं हरति । शिरीषबीजस्नुक्क्षीरे मण्डूकविषनाशने । स्वरसो हिङ्गुसंयुक्तस्तर्कारीभृङ्गराजयोः ॥ १२२ ॥ गनालेपननस्यैस्तु मार्जारविषनाशनः । निशाभृङ्गाश्वगन्धानां लेपादोतोर्विषं हेरेत् ॥ १२३ ॥ पीतं शिरीषपञ्चाङ्गं लिप्तं वानरदंशजित् । तृतीयकन्दं वेगाया नीलिका तण्डुलीयकम् ॥ १२४ ॥ क्षीरेण पिष्ट्वा लेपाद्यैर्नरदष्टविषं हरेत् । लोध्रं लवणहिङ्गुभ्यां सर्षपैः शुक्तपेषितम् ॥ १२५ ॥ आलेपयेत् पिबेच्चापि मत्स्यदंशविषापहम् । शमीन्यग्रोधनिम्बानां कल्ककाथं पिबेदपि ॥ १२६ ॥ तत्पिष्टलेपान्मर्त्यानां नखदन्तविषं हरेत् । गृहधूमत्रिकटुकसैन्धवैः शुक्तपेषितैः ॥ १२७ ॥ लेपपानादिना हन्याद् गोधादंशकृतं विषम् । सलोणतप्त तैलं तु सेचयेन्मक्षिकाविषे ॥ १२८ ॥ "दंभं च बि' ख. पाऊ: २. 'हरेतू | लो' क. पाठ: २४३