पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ ईशान शिव गुरुदेवपद्धतौ सौवीरपिष्टं लेपाद्यैः सर्वलूतगरं हरेत् ॥ १०७ ॥ चन्दनोशीरतैगरपाटलीकुष्ठपद्मकैः । हीबेरशेर्लुनिर्गुण्डीशारिबाभिस्तु काञ्चिके ।108।। पिष्ट्वा प्रलेपपानाद्यैः सर्वलूताविषं हरेत् । वचादोषालशुनकान्यर्धमर्धं च रामठम् ॥ १०९ ॥ विश्वा तदर्धे मूत्रेण पाद्यैर्हतनाशनम् । वन्ध्याकर्कोटकीमूलं लूतघ्नं तण्डुलोदके ।। ११० ॥ वेगामूलं तथाम्भोभिः साङ्गताम्बूलवारि च । लूतात्रणे निष्ठीवितामति यावत् । काञ्चिके || १०८ || ज्योतिष्मत्याश्च बीजानि मरिचं बदरीत्वचा ॥ १११ ॥ · क्षीरे पिष्ट्वा प्रपाद्यैः सर्वलूता विषं हरेत् । अगस्तीपत्रतुलसीरसलेपश्च लूतजित् ॥ ११२ ॥ ३ कदम्बनीलतुलसीलाङ्गल्यालेपनं तथा । चिश्चावन्दाकगोक्षीरपानं लूतादिनाशनम् ॥ ११३ ॥ तत्कल्कपक्वतैलं च लृतिकाव्रणनाशनम् । अङ्कोलगुञ्जानिर्गुण्डीपत्रं विश्वा निशाद्वयम् ॥ ११४ ॥ क्वथितं सकरञ्जास्थिजलं सेकेन लूतजित् । इति लुतचिकित्सा | रय हुं फट् ठंठ । दर वर करि च्छिन्द खड्गेन छेदय शूलेन भिन्द चक्रेण दा- रय हुंफट् ठठ। [मन्त्रपादः गर्दभादिविषाणां तु मनुरेष विनाशकृत् ॥ ११५ ॥ मुस्तोशीराब्जमांसीभिः श्रेष्ठापद्मकचन्दनैः । अजादुग्धेन पानाद्यं गर्दभादिविषापहम् ॥ ११६ ॥ आदिशब्देन मार्जारवानरमकरग्राहनकुलाश्वादयो विवक्षिताः । १. 'तरगापा' ख. पाठः २. 'ल' क. पाठ: ३. 'खीरसलेपक्ष तजिद | कदम्बनीली तुलसीलाङ्ग' ख. पाठ:.