पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'पूर्वार्धे चत्वारिंशः पटलः । बुधाश्लेषे धनुर्लग्ने कीलं सप्ताङ्गुलायतम् । वैभीतकं वा निखनेद् विलोमं वृषनाशनम् ॥ ९७ ॥ तूतचिकित्सा ] तद्विले निखनेदिति यावत् । खनेच्छतभिषर्क्षे वा धनुष्यारग्वधोद्भवम् । इदमपि वृषनाशनम् | शुष्कं डुण्डुभपुच्छं तु सर्पिषा ज्वालयेत् तदा ॥ १८ ॥ वज्रीकरञ्जमधुकद्विकोशातकिबीजयुक् । निर्गुण्डिमूलं च निशे पश्वजामूत्रपेषिते ॥ ९९ ॥ सौवीरपिष्टा गुलिका यस्ता गेहे वृषान् हरेत् । पीता सर्वाखुविषह्रच्छायाशुष्का गुली भवेत् ॥ १० ॥ श्वेतार्कपाटलीमूलदेवदारुनिशाद्वयैः । कल्कीभूतैः सगोमूत्रैः सर्पिः सिद्धं वृषार्तिहृत् ॥ १०१ ॥ रक्तार्कं लशुनं चैव बद्धमाखुविषापहम् । इत्याखुविषचिकित्सा | १८१ लुतिकाः कृ(तिमि)भेदाः स्युश्चतस्रः खे चरन्ति ताः ॥ १०२ ॥ यष्टौ भूमौ चरन्त्यासामसाध्याः खे चरन्ति याः । एका दर्शनतो हन्ति स्पृष्टान्या छायया परा ॥ १०३ ॥ इतरा चैव गन्धेन तस्मादू व्योम्नि शयीत न । भोजनं च न कुर्वीत निशासु व्योम्न्यनावृते ॥ १०४ ॥ स्वं साग्निबिन्दु हृल्लेखावियदग्नयर्धिबिन्दुमत् । विपतिं कर्णिकान्तं च शुक्लं वर्मास्त्रके मनुः ॥ १०५ ॥ लषस्रषश्विषाडित्यो वह्निषु नमोऽस्तु ते रुद्राय रुद्राग्निषु दोषनाशायाय फट् । मन्त्रास्त्रयोऽपि लूतघ्ना जपाद्यैस्तु पृथक् पृथक् । दुर्गासूर्येन्दुदेवत्याः सहस्राभ्याससाधिताः ॥.१०६ ॥ महाखर्जूरकुसुमं मरिचं तुलसीयुतम् । १. 'बो:' ख. पाठः. २. 'श्मि' क. ग. पाउ MM