________________
ईशानशिवगुरुदेवपद्धतौ कलशे शरावकपिलाज्यदीपिके स्वभिपूजिते निशि जपेच्च कन्यकाम् । अधिवास्य तत्र खलु सावलोकनाद् वदति त्रिकालकलितार्थसन्ततिम् ।। ६६ ।। इत्थं मन्त्रो भार्गवेणोदितोऽयं वैनः पूर्व कामधुग् यो मुनीनाम् ।
योऽमुं सम्यक् साधयेत् साधकेन्द्रस्तस्यासाध्यं नास्ति किञ्चित् त्रिलोक्याम् ॥
सिद्धविनायकविधानम् । उद्धृत्य झण्टीक्रोडेशौ दन्तायेति पदं ततः ।
बस्तिपुच्छाशसंक्षोडषाश उच्छिष्टमात्मने ॥ ६८॥ .
. ताराङ्कुशाभ्यां शक्तिश्च बिन्दुनादविभूषिता ।
ह्रूङ्कारं चास्त्रबीजं चाप्योष्ठयुक्तः शिवोत्तमः ॥ ६९ ॥ द्विरभ्यस्तश्च मन्त्रोऽयमष्टाविंशतिवर्णकः ।
उच्छिष्टविघ्नराजाख्यो जपाद्यैः सर्वसिद्धिदः ॥ ७० ॥ उच्छिष्टाय ठठ। अनेन जातियुक्तानि हृदाद्यङ्गानि षट् कमात् ।
विन्यस्य तु यथास्थानमुच्छिष्टः साधयेदिमम् ॥ ७१ ।। ऋषिरुच्छिष्टयाजाख्यश्छन्दः स्यान्निचृदेव हि ।
उच्छिष्टशब्दपूर्वोऽस्य दैवं गणपतिः स्मृतः ॥ ७२ ।।
तुन्दी विघ्नः शुक्लवर्णो गजास्यः पाशी नग्नः साङ्कुशोऽङ्गुष्ठमात्रः । नानारनैर्भूषितः स त्रिणेत्रः पूज्यो नृत्यन् साभयेष्टप्रदोऽसौ ॥ ७ ॥ यावत्कृष्णचतुर्दशि प्रतिदिनं प्रारभ्य कृष्णाष्टमी
मुच्छिष्टोऽष्टशतं जपेञ्च जुहुयात् सद्दन्तकाष्ठेर्नवैः ।
स्वाद्वक्तैर्मनुरेष सिध्यति ततो मन्त्रं ससाध्याह्वयं
संलिख्यात्र निधाय तं गणपतिं जप्येन चाकर्षयेत् ॥ ७१ ।।
कक्षे क्षिप्त्वा चाप्नुयादिष्टमेनं हेमोन्मत्तैर्विघ्नमिष्ट्वा शतैस्तम् ।
यस्याः पद्भ्यां पांसुसंस्थं च कृत्वा जप्याद् रात्रौ तूर्णमायाति चेष्टा ।। ७५ ॥ १. 'शो' ख. पाठः. २. 'पाडश' ग. पाठः. ३. 'कु' क. पाठः. ४. 'यान्ति चेष्टाः' ख. पाठः