पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे चत्वारिंशः पटलः । पारावतपुरीषं च नागरं सिन्धुतालके । बीजपूररसे पिष्टं प्रलिप्तं वृश्चिकार्तिजित् ॥ ७३ ॥ घृतस्याष्टांशसिन्धूत्थकोष्णलेपोऽलितोद जित् । बर्बरस्योपनाहं च तत्पत्रामर्दनं तथा ॥ ७४ ॥ पुष्ये पुनर्नवामूलं विधिवत् सूद्धृतं पिबेत् । वृश्चिकानां विषं तस्य शरीरे नाधिरोहति ॥ ७५ ॥ करञ्जशैरीषबीजे कुङ्कुमं च मनःशिला । समा गुलीकृतास्तोये वृश्चिकानां विषापहाः ॥ ७६ ॥ इति वृश्चिकचिकित्सा आखुविष चिकित्सा] कालकर्णद्वयोपेतो वह्निपत्न्यन्तको मनुः । पूगत्रयं तु सच्छिद्रं सप्तताम्बूलयोजितम् ॥ ७७ ! विलिख्य तेषु तज्जापाद् भक्षणादाखुजं हरेत् । षे षेश्वेटपुरी च एकविलजगरुद्रजटपिङ्गल फु हर विषं हर संहर फु । अधोग्रन्थ्यार्ककुसुमं द्वात्रिंशदभिमन्त्रितम् ॥ ७८ ॥ निगिरेदाखवविषे दन्तास्पृष्टं नवे हरेत् । कपित्थपत्रमूलं चव्याघाटस्य शिफां निशाम् ।। ७९ ।। गोमूत्रपिष्टां तु पिबेत् सर्वाविषनाशनम् | आरग्वधदलैर्धूपः साज्यं तत्पत्रभक्षणम् ॥ ० कार्पासतोयं तैलेन पीतं चाखुविषं हरेत् । कान्ता शिरीषकुसुमैः कुस्तुम्बुरु निशाद्वयम् ॥ ८१ ॥ समं गोमूत्रपिष्टं तत्पानादाखविषं हरेत् । तापिञ्छमूलपिष्टं वा चव्यं वा काञ्चिके पिबेत् ॥ ८२ ॥ कृष्णरम्भाफलं कृष्णा ससितं पयसाथ वा । रम्भाफलनिवासान्तः सप्तमं कणमाशयेत् (?) || ८३ ।। एते योगास्तु चत्वारः पृथगाखुविषापहाः । नवमालावामपर्णसप्तपिष्टं तु वा पिबेत् ॥ ८४ ॥ 'न्ताः शि' ख. पाठ: २. 'वनमा' ख. गः पाठः.