पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ घृतेन पीत्वा गरलं त्रिविधं च विनाशयेत् । अजास्पृश्या तथाज्येन पीता सर्वविषापहा || ६२ ॥ पुनर्नवाम्भः सहिङ्गु नस्यात् सर्वविषापहम् । अङ्कोलपाठानिर्गुण्डीपर्णैस्तुल्यं रसोनकम् || ६३ ।। तद्वत् कतकवेगास्थि पुनर्नवशिफासमम् । चूर्णितं लाङ्गलीमूलं धूपावेतौ विषापहौ ॥ ६४ ॥ सन्ध्ययोरपराह्ने वा धूपयेन्नान्यदा कचित् । सर्वविषहराविति यावत् । पिष्टं पुनर्नवामूलं कृष्णामम्भसि तत् पिबेत् || ६५ ॥ लेपाञ्जने च कुर्वीत सर्वसर्पविषापहम् । ऋक्षदन्तकृतं तार्क्ष्यमूर्तिमावाह्य तज्जपेत् ।। ६६ ।। तद् यो धारयते तस्य सर्पबाधा न विद्यते । इति सर्वाहिचिकित्सा | २७८ तारशुक्लाग्निपुंमन्त्रो वृश्चिकक्ष्वेलनाशनः || ६७ || ताम्बूलीसलिलं हिङ्गु कांस्ये हस्तेन पेषयेत् । पादलिविषं हन्ति लालाकर्णमलं तथा ॥ ६८ ॥ सैन्धवं हिङ्गु च शिला विश्वा गोमयवारिणा | वृश्चिकघ्ना च शैरीषं बीजं कृष्णा च लेपनात् ॥ ६९ ॥ अर्कक्षीरेण पालाशबीजं पिष्टं प्रलेपयेत् । करञ्जपत्रं हस्तेन पिष्ट्वा बद्धं च तद्धरेत् ॥ ७० ॥ वृश्चिकमिति यावत् । ताम्बूलं मारिचं वार्त्तं करञ्जीस्थ्यश्वमारकम् । आलेपनं च पानं च हन्याद् वृश्चिकजं विषम् ॥ ७१ ॥ (मन्त्रपार्य: शिरीषपुष्पमञ्जिष्ठाचन्दनं च निशाद्वयम् । कुष्ठं च कुमुदं द्वे द्वे लेपेनालिविषापहे || ७२ || है, 'जोऽस्वश्वनावकम्' ख. पाठ: 2. 'दनं च ना' रा. पाठः ३. 'दि' ख. पाठ: