पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्वाहिचिकित्सा] पूर्वार्धे चत्वारिंशः पटलः । टङ्कणं सैन्धवं व्योषं नरमूत्रेण पेषितम् । प्रलिप्य राजिलादीनां क्षुद्राणां च विषं हरेत् ॥ ५० ॥ नन्द्यावर्तशिफापाननस्यं राजिविषापहम् । इति राजिलचिकित्सा | 9. अग्निकोत्तमकन्ये द्वे पिष्ट्वा हस्तेन तद्सैः ॥ ५१ ॥ सर्वाङ्गाभ्यञ्जनं हन्याद् राजिकामण्डलीविषम् | मधूकजं यन् पिण्याकं तैगुरं च नृमूत्रयुक् ॥ ५२ ।। घ्राणस्थं राजिलानां च मण्डलीनां विषं हरेत् । पिशाचोदुम्बरदलैर्गिरिकर्णीशिफा समम् || ५३ || गव्याज्यपिष्टा नस्याद्यैः फणिराजिविषं हरेत् । त्वक्चूर्णमर्कमूलस्य शीताम्भोलोलितं पिबेत् ।। ५४ ।। फणिघोणसयोश्चापि विषं चाश्वारिजं हरेत् । टङ्कणश्लक्ष्णचूर्णं तु स्वच्छाम्भोलोलितं पिबेत् || ५५ || नस्यं च लेपनं कुर्यात् सर्वाहिविषनाशनम् । पुनर्नवरसे पिष्ट्वा रामठं नसि योजितम् ॥ ५६ ॥ मार्कवं काकमाचीं च वह्निकं कटुगन्धिनीम् । पिष्ट्वा स्तन्येन नस्येन सकलाहिविषापहम् ॥ ५७ ॥ चूर्ण च नवनीतं च स्नुहिमूलं च रामठम् । रम्भामूलं तथागस्त्यं शिशुमूत्रेण पेषितम् ॥ ५८ ॥ चम्पकत्वग्रसैर्नस्यं सकलाहिविषापहम् । उन्मत्ताम्भः सलवणं नस्यालेपाञ्जनार्पितम् ॥ ५९ ॥ ताम्बूलीसलिलं वापि समस्ताहिविषं हरेत् । तुम्बिनीबककूश्माण्डशैरीषैर्जातिजानि च ॥ ६० ।। बीजान्यात्मोदकैः पिष्वा नस्याद्यैः सर्वसमंजित् । समूलं मेघनादं च वेगानीलीशिफायुतम् ।। ६१ ॥ 'राजीवचि' ख. पाठः २. 'तगहं च', ३. 'कम्' ग. पाठ:. २७७