पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७६ ईशानशिवगुरुदेवपद्धतौ घृतं पक्कं हरेद् गव्यं सेकान्मण्डलिजं विषम् । फलत्रयनिशायष्टित्रिवृत्कल्कं घृतं पचेत् ॥ ४० ॥ स्नुक्क्षीरशिष्टगव्याव्यं ब्रह्मीरसचतुर्गुणम् । तदालेपनपानाद्यैर्मण्डलीनां विषापहम् ॥ ४१ ।। द्विमुखाहिं हतं मृत्सावेष्टितं चिरशोषितम् । मृद्भूतं सास्थि संचूर्ण्य तच्चूर्णेनाम्भसा सह ॥ ४२ ॥ मण्डकीनां क्षतालेपाद्विषं सद्यो विनाशयेत् । गुञ्जामूलं काञ्चिकेन मण्डलीनां विषं हरेत् ॥ ४३ ॥ पानालेपननस्यैरिति यावत् । नीलीमूलं घोणसानां विषघ्नं पानलेपतः । काञ्चिकेनेति यावत् । ह्रीं हुं फट् ठठ | हुं हुं फट् ठठ । झों हुं फट् ठठ | मन्त्रास्त्रयो राजिलानां जपेन विषनाशनाः ॥ ४४ ॥ कान्तारका रवेल्ल्यास्तु शिफां दुग्धेन पाययेत् । मूत्रेण शारिबायाश्च पानाद्यै राजिलापहः ॥ ४५ ॥ बर्षाभूचिर्भटवचाः कान्न्चिकेन पिबेद् विषम् | हन्याद् राजिमतां नस्यात् तैलं च गृहधूमयुक् ॥ १६ ॥ कणा क्षौद्रं च सिन्धूत्थं पीतं गोमयवारिणा । राजिलानां गरहरं गुह्यमेतदुदाहृतम् ॥ ४७ ॥ इति मण्डलिचिकित्सा | गोशकृद्रससिन्धूत्थं कणाज्यक्षौद्रपानतः । राजिलानां विषं हन्याच्छ्रेतशिका तथा ॥ १८ ॥ स्वर से नेति यावत् ! सतैलद्रोणपुष्पाम्बुनस्यं राजिविषापहम् । सतैलतिन्त्रिणीपक्कनस्यं राजिविषं हरेत् ॥ ५० ॥ १. 'विलंतू' ख. पाठः. [मत्रपाद: