पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे चत्वारिंशः पटलः । बृहत्कदलिकामूलं विण्मूत्रस्तम्भनेऽम्भसा । नाभेरधः समालिप्य सर्व स्रवति तत्क्षणात् ॥ २८ । मण्डलिचिकित्सा ] मण्डलिक्ष्वेलहृन्नस्यं पानं च लवणाम्भसाम् । स्त्रीस्तन्ये वाकुलं बीजं नसि दत्तं तु मोहहृत् ॥ २९ ॥ शतावर्यक्षवाराहिवेगामूलानि पेषयेत् । पुराणमेषातक्रेण तल्लेपो घोणसापहः ॥ ३० ॥ सैन्धवं नालिकेराज्यं लिप्तं मण्डलिजं हरेत् । गुञ्जानील्योस्तथा मूलं नस्याद्यैर्मण्डलीं जयेत् ॥ ३१ ॥ चूर्णं भृङ्गी च ताम्बूलं दधि लोणं च पेषितम् । योगद्वयं पृथग्लिप्तं विषं मण्डलिजं हरेत् ॥ ३२ ॥ कृष्णाजमोदाकार्पासतिलापूपा गरापहाः । मयूरपिञ्ज(मै:रै)णत्वक्कोलविधूपतो हरेत् ॥ ३३ ॥ मण्डलिविषमिति यावत् । अजाम्भसा पोत्रिशक्कृदालेपो घोणसापहः । बज्रवल्लिं च तन्मूलं गोक्षीरेण तु पेषयेत् ॥ ३४ ॥ सतैलं पाययेत् तेन मण्डलीनां विषं हरेत् । क्षीरेण स्नुहिमूलं च जलेनार्कशिफा तथा ॥ ३५ ॥ योगद्वयं पृथक् पीतं मण्डलीनां विषापहम् । मूलं पुनर्नवस्यापि गिरिकर्णीद्वयस्य च ॥ ३६॥ शुक्तेन नस्यपानाभ्यामञ्जनेन च तद्धरेत् । कटुत्रयं दधि क्षौद्रं नवनीतं च सैन्धवम् || ३७ ।। पिबेन्मण्डलिजं क्ष्वेलवेगं रक्तं च नाशयेत् । त्रिफला च त्रिकटुकं सैन्धवं मधुमाहिषे ॥ ३८ ॥ तक्रे पिष्टं प्रलिप्तं चेन्नश्येन्मण्डलिनां विषम् । स्नुग्गव्यपयसोः प्रस्थे कुष्ठचन्दनकल्कके ॥ ३९ ॥ २७५