पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७४ ईशानशिवगुरुदेवपद्धतौ स्नुक्श्रेष्ठकन्यास्नुह्यर्कश्वेतार्काजापयस्सु च । सम्भाव्य वेणुपात्रस्थं तेन नस्यं तथाञ्जनम् ॥ १८ मैत्रस्थाने च निहितं दष्टमुत्थापयेन्मृतम् । कतकस्यार्द्रबीजैस्तु सप्तकृत्वः पटच्चरम् ॥ १९ ॥ भावयित्वाञ्जयेन्नेत्रे तैलेनात्मोदकेन वा । नस्यं च कुर्यात् सद्यः स्यात् फणिनां विषनाशनम् ॥ २० ॥ निशा कृष्णा नागरं च मरिचं गृहधूमकम् । सिन्धुवारस्य पत्राणि श्लक्ष्णं पिष्ट्वा तुषाम्भसा ॥ २१ ॥ आलेपनाद् विषं हन्ति रक्तास्रावश्च तिष्ठति । हरिद्रागृह धूमं च मेघनादं घृतं दधि ॥ २२ ॥ पीतं फणिविषं हन्यात् तक्रेणाप्यहिजं विषम् । अहिगन्धा मुखे क्षिप्ता लिप्ता सप्तविषं जयेत् ॥ २३ ॥ इति फणिचिकित्सा | लवस्रनेत्र ! उल्कामुख ! विषदहन ! विषभोजन ! वज्रहस्त ! हन हुं मुष्टिबन्धेन विषं यरलव पक्षि हुं फट् फो ठठ | यदङ्गं मण्डलीदष्टं ध्यात्वा मण्डलिविग्रहम् । स्वयं वराहहस्तं च खादन् जाप्याद् विषं हरेत् ॥ २४ ॥ सानन्तं दण्डिखं शक्तिरल्पपक्षिदेहा अरविमरविमत्तवान् ठठ (?) । जपन् खादंश्च ताम्बूलं मण्डलीनां विषं हरेत् । अधोमुखं दंशकाहिं वमन् धूमविषं स्मरन् ॥ २५ ॥ दष्टाङ्गमर्दनाच्छोफाक्ष्वेलस्य तु विनाशनम् । तद्विषी श्वेततोलाभ्यां मूर्धाद्यं भक्षितं स्मरेत् ॥ २६ ॥ मण्डलिविषं नश्यति । मूत्रविस्तम्भनेऽधस्तान्नाभेर्लेप्या वृषस्य विट् । तण्डुलाद्भिः समं भेकवसालेपादपि स्रवेत् ॥ २७ ॥ [ मन्त्र पादः 'अभिन्धो मु' क.ग. पाट:. २. 'णे', १. ५. 'स्तनान' क, पाठः ३ 'भ्यां', ४. 'ल' ख. पाठः,