पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे चत्वारिंशः पटलः । शुण्ठीरामठकारवेल्लिलशुनैः स्वर्ण वचा तुम्बिनी नक्तस्रग्वकुळास्थिशिप्रुफलजं कोशालकीबीजयुक् । क्षोणीपूर्वशिरीषकस्य च शिफा स्यात् सर्पगन्धा समं सर्वे पिष्टमजाम्भसा कृतगुली नस्यादिनाहीन् जयेत् ॥ ५ ॥ षडङ्गीमूलपिष्टस्य नस्यालेपादू विषं हरेत् । सदालिप्तकरः क्रीडन् सर्पैरिह न बाध्यते ॥ ६ ॥ गोघृतं लोणमरिचे हिङ्गु मातृरिपोः करम् । पिष्टं श्रोत्राक्षिनासासु सिक्तं फणिविषापहम् || ७ || पुनर्नवं च वाराहीं पीत्वा क्षीरेण निर्विषः । शङ्खतालकचूर्णाभ्यामधोङ्गानां च मार्जनात् ॥ ८ ॥ चूर्णयित्वा वचाहिङ्गुमरिचांस्तु समोतान् । कारवेल्लिरसैर्नस्यं दष्टमुत्थापयेत् क्षणात् ॥ ९ ॥ पत्राणि देवदाल्यास्तु सबीजाबीजकौशिका (?) । सौवीरपिष्टा पानाद्यैः सद्यः फणिविषापहा ॥ १० ॥ गुञ्जावकुलबीजानि मरिचं च नृवारिणा | समिचिकित्सा ] १. पिष्ट्वा तन्नस्यपानेन नष्टसंज्ञोऽपि जीवति ॥ ११ ॥ भूनागं नरतोयेन पिष्ट्वा पीत्वा प्रलेपयेत् । नस्याञ्जने तथा कृत्वा फणिनां गरलं हरेत् ॥ १९ ॥ जननीरिपुहस्तं च रामठं च नराम्भसा | पाननस्याञ्जनैर्हन्यादपि वासुकिजं विषम् ॥ १३ ॥ बीजं तु वाकुलं मूत्रे पानाद्यैर्विषनाशनम् । कोशातकीजातिफले नक्तमालकरञ्जयोः ॥ १४ ॥ बीजे पिष्ट्वा तु तन्नस्यं सद्यो नागविषं जयेत् । अगारधूमो दार्वी च मेघनादो हरिद्रया ॥ १५ ॥ दध्याज्यपेषितः पीतो मुख्याहिगरलापहः । त्रिःसप्तकृत्वः संभाव्यः सूर्यक्षीरेण नागरम् ॥ १६ ॥ भक्षितं गरलं हन्ति पाननस्याञ्जनेन च । हिङ्गु त्रिकटुकं सिन्धुं रसोनं चोग्रगन्धिकाम् ॥ १७ ॥ 'ढ' क, पाठः LL S