पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७१ ईशानशिवगुरुदेवपद्धतौ तारे विषकलायोगे यमविद्यादिमन्त्रतः | वेधे कृते प्रतिकृतौ साङ्घ्रिपांसौ मरिष्यति || १६२ || जरत्कारोर्जरत्कार्यो समुत्पन्नो महातपाः । आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥ १६३ ॥ ओं नर्मदायै नमः प्रातर्नर्मदायै नमो निशि | नमोऽस्तु नर्मदे! तुभ्यं पाहि मां विपसर्पतः ।। १६४ ॥ असितं चार्तिमन्तं च सुनीतं चापि यः स्मरेत् । दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ १६५ ॥ लोकनेतांस्तु जपतो दिवारात्रं च सन्ध्ययोः | सर्पमध्यगतस्यापि भयं तस्य न विद्यते ॥ १६६ ॥ ओं इत्थं हिताय खलु देहभृतां समासान्ना गोद्भवोदयकुलं कृतिहेतुदौत्यैः । सौवर्णमन्त्रविनियोगविधानपूर्वं ध्यानानि वैव कथितानि विषापहानि ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे 3 २ मन्त्रपादे विषप्रती कारपटल एकोनचत्वारिंशः | अथ चत्वारिंशः पटलः । ध्यानानां चलचित्तत्वान्मन्त्राणां साधनस्य च । वैषम्यं चाधिका (री?रा) णामौषधैः साध्यमिष्यते ॥ १ ॥ दंशकाहेस्तु सन्देहं करञ्जत्वचि भक्षिते । मधुरे तु फणी तिक्ते राजिलो घोणसङ्कटौ ॥ २ ॥ काकाण्डा (न्तान्तः) क्षिपेडिङ्गु धर्म शुष्कं गुलीकृतम् । मूत्रेण नसि निक्षिप्य फाणदृष्टः सुखी भवेत् ॥ ३ ॥ [ मन्त्र पाद: मातृधातीरजो हिङ्गुश्चुछुन्दर्युदरे स्थितः । साधारश्चूर्णितः शुष्को नस्यात् फणिविषापहः ॥ ४ ॥ १. 'सिद्धान्तसारे' क. ग. पाट:. २. 'पचप्र', ३. म्याचा' ग. पाठः ४. 'णसाघटौ', ५. 'ड' ख. पाठः,