पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषप्रतीकाराधिकार:] पूर्वार्धे एकोनचत्वारिंशः पटलः । स्वैक्येनैकाग्रमनसा निर्विषं कुरुते जपन् । • विना मन्त्रौषधाद्यैस्तु श्वेलशान्तिः प्रदर्श्यते || १५० ।। अङ्गुष्ठोर्ध्वपदाङ्घ्रिसन्धिषु तथा जानौ च गुह्ये ततो नाभौ हृस्तनकण्ठघोणनयन श्रोत्रेषु मध्ये भ्रुवोः । शङ्खे मूर्धनि पूर्वपक्षतिथिषु प्रोक्तामृताख्या कला मूर्धाद्यं बहुले विलोममुदितारोहावरोहक्रमात् || १५१ ॥ वामाङ्गुष्ठादिकं स्त्रीणां रोहोऽन्यत्रावरोहणः । सुधायाः सप्तमं स्थानं प्रोक्तं विषकला बुधैः ॥ १९२ ॥ दष्टदेहेऽमृतकलां ज्ञात्वा तत्र विमर्दनात् । १, निर्विषं स्याद् विषकला सुधास्थानात् तु सप्तमम् ॥ १५३ ॥ तत्र सम्मर्दनात् सर्वविषाणां स्तोभनं भवेत् । असाध्यस्तत्र दंशस्तचिकित्सां तत्र वर्जयेत् || १५४ ।। कण्ठे विषकलायां तु क्रियते यदि भोजनम् । अजीर्णोदररोगाद्यैः क्रमान्सृत्युर्भविष्यति ॥ १५५ ॥ यदा कण्ठे विषफला तत्रोत्तानं तु खड्गिनम् | चिन्तयित्वामृतं न्यस्येत् भुञ्जीयादमृतं स्मरन् || १५६ ॥ नित्यं सुधाक्षरं कण्ठे कृत्वा ध्यात्वा परामृतम् | अश्नतो नापमृत्युः स्याज्जीवेच्च शरदां शतम् || १५७ ।। मर्दयित्वामृतकलां रतिः स्त्रीणां सुखावहा । यदा गुह्येऽमृतकले तदा प्रथमसङ्गमम् || १५८ ॥ दम्पत्योः प्रीतिजननं वश्यं चैतदुदाहृतम् । यत्रामृतकला तस्मिन् प्राणान् नित्यं विचिन्तयेत् || १५९ ॥ आयुः श्रीपुष्टिरक्षाकृच्छाकपूर्णिमतं यथा । आस्येऽक्ष्णोश्च गले बाह्वोः पार्श्वयोः पादयोरपि ॥ १६० ॥ गुरुप्रभाङ्गुलं काकभवाजन्मादिभस्थितिः । साध्यप्रतिकृतिं कृत्वा विपत्प्रत्यरनैधने || १६१ ॥ २७१ 'ला:' ख. पाठः ९. 'ह' क. पाठः,