पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

विषप्रतीकाराधिकारः ] पूर्वार्धे एकोनचत्वारिंश: पटल: । ठयुगान्तस्तु भूर्जस्थो न्यस्तस्तूच्चाटयेदहीन् । पार्श्व सामिद्विजार्थेन्दुमेषो वह्नित्रिमूर्तिमान् ॥ १२९ ॥ सबिन्दुर्लाङ्गली सर्गी नीलकण्ठीयको मनुः । १६९ हरः हृदयाय नमः उठ । कपर्दिने शिरसे ठठ । नीलकण्ठाय शिखायै ठठ । कालकूट विषहेराय हुं फट् । उम्र ठठ अस्त्रम् ! ओं हां ओं नी- लकण्ठाय ओं कपर्दिने ओं ह्रीं हूं सर्वज्ञाय ठठ । त्रिनेत्राय कालकण्ठ विषं भक्षय ठठ । अथवा 9 ऋषिरस्यारुणिर्नाम छन्दोऽनुष्टुप् च देवता । नीलकण्ठादिको रुद्रो बीजमाद्यर्णमीरितम् ॥ १३० ॥ शक्तिद्वितीयबिन्दुस्तु पुरश्चर्या त्रिलक्षकम् । कृष्णाष्टम्यामुपोष्येशं समभ्यर्च्यायुतं जपेत् ॥ १३१ ॥

तिलै: कृष्ण चतुर्दश्यां जुहुयाच्चायुतं तथा ।

पुरश्चर्या कृता स्यात् । तारमङ्गुष्ठयोर्न्यस्येत् तर्जन्याद्यङ्गुलित्रये ॥ १३२ ॥ मध्यपर्वसु वर्णांस्त्रीन् प्रणवं च कनिष्ठयोः । आ नाभेः कृष्णमाद्यर्णं द्वितीयं रक्तमा गलात् ॥ १३३ ॥ तृतीयममृताकारं मूर्ध्नि न्यस्येच्चिदात्मकम् ।

नेत्रत्रयेऽपि त्रीन् वर्णानङ्गान्यङ्गेषु विन्यसेत् ॥ १३४ ॥
आ नाभेरञ्जनप्रख्यमुदितर्काभमा गलात् ।
आ मूर्ध्नश्चन्द्रबिम्बाभमष्टनागेन्द्रभूषितम् ॥ १३५ ॥ 

त्र्यक्षं त्रिशूलहस्तं च स्वैक्यं ध्यायें जपेन्सनम् ।

त्रियक्षरोऽयं मन्त्रस्तु प्रणवादिनमोन्तकः ॥ १३६ ॥
जपध्यानादिना शूलस्पृष्टो दष्टः सुखी भवेत् ।
श्मशाने नूतनेऽहीन्द्रमण्डले भैरवं यजेत् ॥ १३७ ॥
तस्याथे शालिपिष्टेन कृत्वा नागं तु पूजयेत् ।

निशि कृष्णचतुर्दश्यां स्थिरवा (जी ?) वीरासनो जपेत् ॥ १३८ ॥ १. 'मः क' ख पाठः २. 'हरणाय' क. ग. पाठः ३. 'या' रू. ग. पाठः 'जज' क. पाठः ५. 'ने यजत्' ख. पाठः.