पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषप्रतीकाराधिकारः] पूर्वार्धे एकोनचत्वारिंशः पटलः । इत्थं गरुडमात्मानं मन्त्रिणं वीक्ष्य पन्नगाः | पिशाचाद्या ग्रहाश्चान्ये नश्यन्त्याविश्य तत्क्षणात् ॥ १०५ ॥ स्वैक्येन गरुडीभूतो मन्त्री यद्यद् वदत्यसौ । तत्तन्मन्त्रं भवेद् दष्टं मुक्त्वा नश्यति तद्विषम् ॥ १०६ ।। तार्क्ष्यहस्तं समुद्धृत्य मन्त्रार्णव्यत्ययेन तु । अङ्गुष्ठाद्यङ्गुलीनां तु चालनेन जपेन च ॥ १०७ ॥ स्तम्भसंहारसंस्तोभसङ्क्रामान् कुरुते क्षणात् । पञ्चाक्षराणां स्थानेषु प्रथमार्णं निवेश्य तु ॥ १०८ ॥ संस्तम्भयादिवीप्सोक्तया स्यात् स्तम्भोऽङ्गुष्ठचालनात् || १०९ ॥ क्षिप ओं स्वाक्षिप इति जपात् स्तम्भयेत् । प्रथमार्णद्वितीयार्णौ व्यत्यस्योच्चारयन्मनुम् । अनन्तकण्ठाभरणो हारस्तूरसि वासुकिः ॥ ११० ॥ कुण्डलेऽब्जमहापद्मौ गुलिकः शीर्षबन्धनम् । उदरे च तथा कट्यां बन्धः कार्कोटतक्षकौ ॥ १११ ॥ उपवीतं शङ्खपालः सिन्दूरारुणलोचनः । एवंभूतं तु गरुडं स्वैक्यं ध्यात्वा समाहितः ॥ ११२ ॥ शूलमुद्रां दर्शयित्वा स्तोभः स्यात् तु सकृज्जपात् । द्विवारेण तथावेशस्त्रिचतुर्वारजापतः ॥ ११३ ॥ निर्विषीकरणं पञ्चषड्वारान् विषभक्षणम् । विपतिमन्त्राधिकारः । संप्लव संप्लावय इत्युच्चारणात् तर्जनीचालनाच्च विषं हरति । तारं पार्श्वे क्षिवर्णं च ठौ च मध्यमचालनात् । संस्तोभयेति वाक्याच्च जपादाविश्य नश्यति ॥ ११४ ॥ चतुर्थ च द्वितीयं च तृतीयाद्यौ च पञ्चमम् । उक्त्वा सङ्क्रामयेत्युक्त्वानामिकां चालयेत् ततः ॥ ११५ ॥ सङ्कामयेत् । १. 'प्ल' ख. पाउ:.