पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ शुक्लमर्धेन्दुपद्माभं मध्ये खङ्गि च वारुणम् । रक्तं त्रिकोणमग्नीशमध्यासृक्स्वस्तिकाङ्कितम् ॥ ९४ ॥ वृत्तं रेखास्थषड्बिन्दुसत्त्वकृष्णं च मारुतम् । अरूपं शब्दतन्मात्रं स्वबिम्बं शिवदैवतम् ॥ ९५ ।। इत्थं पृथ्व्यादिबिम्बानि ज्येष्ठाद्यं मध्यपर्वसु । स्वनागावेष्टितं न्यस्यद् विपत्यर्णान्वितानि तु ॥ ९६ ।। अनन्तगुलिकौ रक्तौ ब्राह्मणौ वह्निदैवतौ । इन्द्रदेवौ नृपौ पीतौ शङ्खपालश्च वासुकिः ॥ ९७ ॥ कृष्णौ वैश्यौ महापद्मतक्षकौ वायुदैवतौ । चतुर्थौ पद्मकार्कोटौ शुक्लौ जलधिदैवतौ ॥ ९८ ।। नामाद्यर्णानि नागानां पृथ्व्याद्याद्यक्षरैः सह । तन्मात्रैः सह गन्धाद्यैर्ज्येष्ठ।द्यङ्गुलिषु न्यसेत् ॥ ९९ ॥ आद्यपर्वसु तन्मात्रा भूतार्णान्यन्तपर्वसु । मध्ये विषैतिवर्णानि भूतनागार्णमण्डलैः ॥ १०० ।। पञ्चाक्षरान्विते तार्क्ष्ये तन्मात्रात्रिगुणान्विते । त्रयोदशकलोपेते हस्ते तार्क्ष्य विचिन्तयेत् ।। १०१ ॥ ततो भूमण्डलादीनि स्वदेहेऽपि च विन्यसेत् । पादादिजानुपर्यन्तं जान्वोर्नाभितटावधि ॥ १०२ ॥ नाभेर्गलान्तं च गलाल्ललाटफलकान्तकम् । ललाटाच्चापि मूर्धान्तं स्वर्णयुक्तानि विन्यसेत् ॥ १०३ ॥ आत्मानं गरुडं ध्यात्वा गरलानि विनाशयेत् । आजान्वोः स्वर्णवर्णं हिमगिरिशिखरप्रख्यमा नाभिदेशाद् आ कण्ठात् पचबिम्बीफलनवविकस द्वन्धुजीवोपमानम् । आ शीर्षाद् भिन्ननीलाञ्जनचयरुचिरं भूषितं भोगिमुख्यै- र्व्याप्तब्रह्माण्डमध्यं त्रिभुवननमितं वैनतेयं नमामि ॥ १०४ ॥ [मत्रपार: १. 'हूं', २. 'शं' क. ग. पाठः. ३. 'स्म', ४. 'च' क. पाठ:.