पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे एकोनचत्वारिंशः पटलः । नीलकण्ठाय ठयुगं जीवरक्षा कृता भवेत् । साज्यं शक़द्रसं वापि मरिचाज्यं तु पाययेत् || ८४ ।। परोक्षे वाथ सान्निध्ये स्यादेवं जीवरक्षणम् । साक्षः संवर्तकः पार्श्व तारं वह्निप्रियां ततः ॥ ८५ ॥ मन्त्रोऽयं विपतिर्नाम्ना गरुडः शब्दविग्रहः । विपतिमाधिकार:] ज्वल महामति ठठ | गरुडशिखे प्रभञ्जन प्रभेदन विमर्दन ठठ | अप्रति- हतबलाप्रतिहतशासन हुं फट् ठठ | उग्ररूप धारक सर्पभयङ्कर भीषर्य ठठ | सर्व दह भस्मीकुंरु ठठ । विपतेरेवमुक्तानि षडङ्गान्य स्त्रमन्त्रतः ८६ ।। ऋषिवर्गान्त्ययुगलैरष्टपत्रं स्वरद्वयैः । सकेसरं नारसिंहकर्णिकं मातृकाम्बुजम् ॥ ८७ ॥ ब्राह्मचादिकाः सप्त् मातृर्महालक्ष्मीं तु पत्रगाम् । प्राभ्याम्यपश्चिमोदीचीवह्निरक्षोऽनिलेशगाः ॥ ८८ ॥ अं आं कं खं गं घं ङं ब्राह्मयै नमः । इत्यादिमन्त्रैः स्मृत्वेष्ट्वा ज्येष्ठावं मध्यपर्वसु । पश्चाक्षराणि विपतेर्भूतादीनां च मण्डलैः ॥ ८९ ॥ हृदये वामहस्ते च पद्मं ध्यात्वाष्टपत्रकम् । सप्तवर्गान्त्ययुग्माष्टदिक्पत्रं स्वरकेसरम् || ९० ॥ सानुग्रहाग्नि बिन्द्वन्त्यं कर्णिकायां तु विन्यसेत् । एवं सञ्चिन्त्य हृदये वामे करतलेऽपि च ॥ ९१ । विपतेस्तु क्रमाद् वर्णानङ्गुष्ठादिं च विन्यसेत् । मन्त्रार्णानपि नागार्णान् महाभूताक्षराणेि तु ॥ ९२ ॥ तन्मात्रागुणवर्णाश्च करे देहे च विन्यसेत् । वेदाश्रकोणवज्राङ्कं मांसकोणेन्द्रदैवतम् ॥ ९३ ॥ २६५ 'स्वल भस्मीकुरु टठ', २. 'त्र' ख. पाठः, KK