पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ मात्राशतात् तदर्धाद् वा वेगे रोहति साध्यते । क्षिप्रं रोहत्यसाध्यं चेद् वेगलक्ष्माथ कथ्यते || ५० ।। रोमाञ्चस्वेदशोपाश्च विवर्णत्वं च वेपथुः । हिक्कैा च गलभङ्गश्च स्वापश्च मरणं तथा ॥ ५९ ॥ [मन्त्रपाद: इति नव वेगाः । । गुदं च गुह्योदरतालुकर्णस्तनाक्षिशीर्षागलशङ्खनासाः नाभिः सकक्षाङ्घ्रिकराश्च जङ्घे स्थानानि दंशस्य तु निन्दितानि ॥५२॥ देवालयाश्वत्थवटाश्च जम्बूः श्लेष्मातकस्तित्रिणिवेत्रवंशाः । श्मशानशुष्कागमजीर्ण कूपाश्चतुष्पथं चैत्यकमप्यनिष्टम् ॥ ५३ ॥ इत्यनिष्टस्थानानि । प्रसन्नवक्रः कुसुंमादिहंस्तः पूर्णाङ्गदेहश्च सिताम्बरा (द्यः ?ढ्यः) । इष्टस्तु दूतोऽथ तथा ह्यनिष्टस्तैलाक्तदेहो विकलश्च रोगी ॥ ५४ ॥ काष्ठादिकं वाप्यथ कण्टकं वाप्युल्कां च यष्टिं मलिनो दधानः | कण्ठे च वस्त्रं स्वकरे च रज्जुं दूतस्तु निन्द्यः खलु मुक्तकेशः ॥ ५५ ॥ वर्णी लिङ्गयथवा योषिद् दूरतो व्याहरन्नपि । सर्पै पूर्वं ततो दष्टं ब्रुवन् दूतो विनिन्दितः ॥ ५६ || वारदष्टाक्षरं वामे तले विन्यस्य चिन्तयेत् । आघ्राते केतके दर्वी पाटले मण्डली भवेत् ।। ५७ ।। राजिलो मल्लिकागन्धे व्यन्तरः करवीरके । पूर्वावस्थो यदा पाणिर्विषं नास्तीति वा वदेत् ॥ ५८ ॥ वारुणैन्द्राक्षरैर्दूतवाक्याद्यैः स तु जीवति । वाय्वग्निजातैर्न भवेल्लिख्यन्ते तानि च क्रमात् ॥ ५९ ॥ इईलऌअंहलङञणनमा महेन्द्रजाः । अचछजकला (कवा ?) खक्षझवभाश्चैव वारुणाः || ६० ।। एऐओअॅ: + उगथा हयवा ढश्च मारुताः । आऊऋऋऔघतपा (त?र)दसास्वश्च वह्निजाः ।। ६१ ॥ ति दूतवाक्याक्षरनियमः | १. 'दो' क. पाठ:. २. 'कालदल', ३. 'दा वाणी वि' ख. पाठ:. ४. 'अं' क. पाठः,