पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषप्रतीकाराधिकारः] पूर्वार्धे एकोनचत्वारिंशः पटलः । क्षतद्वयं चेद् विद्धं स्यात् खण्डितं तु बहुव्रणम् । अव्रणं त्ववलुप्तं स्यात् कथ्यन्ते दंशहेतवः || ३७ ॥ मीतिः क्षुधा मत्तता चाप्याक्रान्ति: स्थानरक्षणम् । देवादेशश्च वैरं च कालदंशश्च तेऽष्टधा ॥ ३८ ॥ एकं वक्रं क्षतं यत्र भीताहि विहितं तु तत् । विषं न विद्यते तत्र यदा दंशद्वयं भवेत् ॥ ३९ ॥ ऋजु स्वल्पं विषं ज्ञेयं सुसाध्यं तच्चिकित्सयेत् । लालाक्तं दंशमध्ये तु खण्डितं क्षुधितोद्भवम् ॥ ४० ॥ दुःखसाध्यं तु तज्ज्ञेयमसाध्यमिति केचन | एक क्षतं वा बहु वा रुधिरं बहुलं यदा ॥ ४१ ॥ दर्पजं तदसाध्यं हि कथञ्चित् साध्यमेव वा । सलालारक्तमांसानि क्षतानि स्थानरक्षिणः ॥ ४२ ॥ दृश्यन्ते यत्र साध्यं तदिति वाचस्पतेर्मतम् । ऋजु दंशद्वयं चैकं वक्रं वैरकृतं त्यजेत् ॥ ४३ ॥ त्रिक्षतं वा सरुधिरमसाध्यं कालचोदितम् । रोमाञ्चदाहौ स्वेदश्च लालास्रावोऽङ्गकम्पनम् ॥ ४४ ॥ स्मृतिमोहः पारवश्यं कालदष्टस्य तं त्यजेत् । कृष्णं तु मण्डलं दंशे बहुलो रुधिरास्रवः ॥ ४५ ॥ दन्तोष्ठयोर्विघटना कालदष्टस्य लक्षणम् सोमानिसूर्यानरुचीन् पश्येन्नेत्रे त्रिलोहिते ॥ ४६ ॥ न पश्यत्यात्मनश्छायां क्षिप्तो यः प्लवते जले । अरोमाञ्चो जलैः सिक्ते छेदे नास्ति च लोहितम् ॥ ४७ ॥ वेत्रादिताडने तस्य पदं नो यत्र दृश्यते । विवृतं वदनं वापि कालदष्टः स वै मृतः ॥ ४८ ॥ त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि धातवः । धातोर्धात्वन्तरप्राप्तिं विषवेगं प्रचक्षते ॥ ४९ ॥ १. 'रा' ख. पाठः●