पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

KAKO D ईशान शिवगुरुदेवपद्धतौ वैश्यो गुग्गुलुगन्धस्तु शूद्रो नैकत्र वासवान् । पूर्वमध्यापराह्णेषु निशि च ब्राह्मणादयः ॥ २४ ॥ वायुपत्रफलक्षीराण्यश्नाति ब्राह्मणो नृपः । मूषिकांस्तु वणिगू भेकान् शूद्रः सर्वमुपागतम् ॥ २५ ॥ मयूरश्येननकुलपोत्रिमार्जारगोखरैः । नराग्यशनिरुरुभिश्चिरं जीवेन्न चेद्धतः ॥ २६ ॥ भाप्रभावनसंख्यानि गोरोमाभानि वै त्वचा | छन्नान्यहीनां पादानि यतः पादैर्न याति सः ॥ २७ ॥ १, [मन्त्रपाद: इन्दीवराम्बुजे शङ्खस्वस्तिकोत्पलबिन्दवः । फणासु शिशुपादौ वा चिह्नानि खलु भोगिनाम् ॥ २८ ॥ मण्डलैर्विविधाकारैश्चित्रा दीर्घाश्च घोणसाः । राजिल स्तिर्यगूर्ध्वं च चित्रिताङ्गाश्च राजिभिः ॥ २९ ॥ वातं पित्तं कफं त्रींश्च दद्युर्दर्वीकरादयः । दंष्ट्राकारं दंशनं कारणं च चेष्टावेगस्थानमर्माणि दूतान् । वाक्यं तारादिनिमित्तैस्तिथीश्च ज्ञात्वा कुर्याद् वा न कुर्याच्चिकित्साम् ॥ भोगिनां द्वे शते दन्ताश्चत्वारिंशच तेष्वपि ॥ ३१ ॥ नव दन्तास्तु सविषास्तैर्देशाद् गरसम्भवः । कराली मकरी धूम्रा कालरात्रिः कपालिनी ॥ ३२ ॥ काली चौंग्रा च यमनी प्रोक्ता तु यमदूतिका । उक्तैः कतिपयैर्दन्तैर्दशन्त्यनिलभोजनाः ॥ ३३ ॥ आश्लेषे गुलिके वापि दष्टे नास्ति चिकित्सितम् । शस्त्रकण्टककीटाद्यैर्यः क्षतो गुलिकोदये ॥ ३४ ॥ सोऽपि वैवस्वतं याति सर्पदष्टस्तु किं पुनः । दिनराज्योश्च सन्ध्यासु पुंसर्पाद्या महाविषाः ॥ ३५ ॥ ज्ञेयश्चतुर्विधो दंशो दष्टं विद्धं च खण्डितम् | अवलुप्तं च दष्टस्य क्षतमेकं विभाव्यते || १६ || 'ष' ख. ग. पाठ:.