पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः भक्ष्यादिकं च प्रथमाश्रमिभ्यो दत्त्वा यथेष्टं लभतेऽर्थजातम् ।।

राजानं मधुपिशितैस्तिलैरमात्यान् विप्रेन्द्रान् सितकुमुमैर्विशो गुलेन । शूद्राद्यान् सलवणतण्डुलैश्च हुत्वा कन्यां वा वशयति मातुलुङ्गपुष्पैः ॥ ४४ ॥ अष्टद्रव्यैर्वा गुलसक्तूनपि हुत्वा सर्वानिष्टानाशु लभेरन् पुरुषार्थान् ।
अब्जैर्वित्तं निम्बदलैर्द्वैषणकृत्यं तेनालब्धं रोचनगन्धादि च वश्यम् ॥ ४५ ॥ ध्यात्वा साध्यं स्वाङ्कुशसन्नामितगात्रं चाक्रम्यैनं तज्जपतोऽसौ वशमेति। तद्वद् योषा विह्वलिताङ्गी वशमीयात् स्वैक्यं ध्यायन् संयति वादे विजयी स्यात् ॥
अश्वत्थान्तः सप्तदिनं स्थापितराजी पूर्णे चन्द्रेऽनेन गृहे यस्य निखन्यात् । उच्चाटः स्याच्छदुविषाहिप्रभृतीनां भूतक्षुद्रान् हन्ति तदैक्यं गतजापः ॥४७॥ न्यग्रोधाधो मण्डलकेऽग्निं सविधानं संस्थाप्याग्नेर्दक्षिण आवाह्य च यक्षीम् । मूलेनाङ्श्चाय नमोन्तैरुपचारैरिष्ट्वा मुद्रां हस्तिकराभामपि बद्ध्वा ॥ ४८ ॥ अभ्यस्यादौ वह्निसहस्रं त्वथ तैलं हुत्वाङ्कोलं पश्यति यक्षीं स हि मासात् । इष्टं यत्तत् प्राप्य त पा रमतेऽसौ त्रिःस्नायी चेन्न क्व च शस्त्रस्पृगसौ स्यात् ।।

वैनायकैकाक्षरविधानम् । कुम्भोऽथाग्नियुतो भुजादिरषडी कर्णान्विताण्डाय हुं वर्णाश्चेति विनायकस्य गदितः पंडुर्णकोऽयं मनुः ।

शुक्रः स्याद् ऋषिरप्यनुष्टुबुदिता छन्दस्तु तदैवतं

देवः सिद्धविनायकोऽङ्गरचना दीर्घखराणैर्भवेत् ।। ५० ॥

बीजं तस्य तु षष्ठमक्षरमथो शक्तिश्च नादात्मिका

ज्येष्ठाद्यङ्गुलिषु न्यसेत् तु करयोरर्णांस्तुले चान्तिमम् ।

अङ्गानां च कनिष्ठिकाद्य उदितो न्यासस्तले चास्त्रकं

मूर्धाक्षिश्रवणास्यहृच्चरणयोर्वर्णान् यथाङ्गानि च ॥५१॥ पाशाङ्कुशोभयकरोऽथ वरात्तदन्तो लम्बोदरो गजमुखोऽरुणमाल्यगन्धः । रक्ताम्बराङ्गदकिरीटविचित्रहारो ध्यातः श्रियेऽस्तु भवतां भगवान् गणेशः ॥ १. 'तलाजी' ख. पाठः, 'तराजा' ग, पाठ:.