पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वैत्तायकैकाक्षरविधानम्] पूवार्धे षोडशः पटलः।

पञ्चान्तकं बिन्दुयुतं च साक्षाद् बीजं गणेशस्य वदन्त्यथान्ये ॥ ३४ ॥ औकारबिन्द्वन्तमुदीरयन्ति तुल्यस्तर्योः स्वाद् विधिरेषणीयः ।।

गणराजाय ठठ । एकदंष्ट्राय हुं फट् । अचलकर्णिने नमो नमः । गजवक्राय नमो नमः । महोदराय दण्डहस्ताय हुं फट् । विनायकाय वौषट् । स्वजातिभाञ्जीत्युदितानि षड् यान्यङ्नानि नेत्रान्तमनुक्रमेण ॥ ३५ ॥ गणेश्वराय ठठ । धूम्रमुखाय ठठ । धूर्जटाय ठठ । विघ्नरूपाय ठठ। इत्यष्टदिग्बन्धविधिः प्रदिष्टः विघ्नहन्त्रे ठठ । लम्बोदराय ठठ। सोर्ध्वाधराशाकलनं विदध्यात् । ऋषिस्तु नाम्ना गणको विराट् तच्छन्दस्तु देवोऽस्य विनायकाख्यः ॥ ३१ ॥ श्रेत्याशनोऽमुं जपतु त्रिलक्षं पुरस्क्रियार्थं स दशांशहोमम् ।

चतुर्भुजः खर्वतनुर्गजास्यो लम्बोदरो नांगकृतोपवीतः ३७॥
दधत् सपाशाङ्कुशदन्तभक्ष्यैः पात्रीं तदालम्बितपुष्कराग्रः। रक्ताम्बरालेपनमाल्यरत्नैर्विभूषितः कुङ्कुमपिञ्जराग्रः ॥ ३८॥
ध्येयो ह्यधः कल्पतरोः फलार्थेरापूर्यमाणः कनकाब्जपीठे।
ऐशे गुरुं क्षेत्रपतिंं च पूर्वमिष्ट्वा तथाधारमयीं च शक्तिम् ॥ ३९ ॥
शेषं च पृथ्वीं तदनन्तपीठं धर्मादिभिः प्रोक्तगुणाब्जबिम्बैः । तच्चन्द्रमध्यस्थिततारमध्ये त्वानीय खाब्जामृतधारयेन्दौ ॥ ४०॥
विनायकं स्वैर्वृतमङ्गमन्त्रैर्गजाननैर्दिग्दलगैर्हृदाद्यैः । 

कोणेषु हेतिं पुरतोऽस्य नेत्रं दिग्बन्धविघ्नांस्तु गणेश्वरान् षट् ॥ ११ ॥ शङ्खाख्यपद्माख्यनिधी च दिवैस्थान् कोणेषु चैवं क्रमशोऽर्चयीत । इन्द्रादिलोकाधिपतीन् सवाहानिष्ट्वा स्वकाष्ठासु तदायुधानि ॥ ४२ ॥ यजेश्चतुर्थावरणे त्वथैशे गुरूनपि स्वान् गणचण्डकं च ।

आवाहनाद्यैस्तु यथोपचारैरिष्ट्वा यथाशक्ति जपेच्च मन्त्रम् ॥ १३ ॥

१. 'या' क. ग. पा. २. 'प्र' क. स. पाठः. ३. 'पि स्यात् ' ख पाठः,