पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२५८ ईशान शिवगुरुदेव पद्धतौ [मन्त्रपादः इत्थं विचार्य बहुधा बहुतन्त्रसिद्धं त्रैलोक्यमोहनमनोर्विपुलं विधानम् । सङ्क्षिप्य साधकजनस्य हिताय गीतमन्नाधिपस्य च हरेरिह कल्पदृष्टम् ॥ १० इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे त्रैलोक्यमोहनवामनमन्त्र पटलोऽष्टात्रिंशः । अथैकोनचत्वारिंशः पटलः । विषग्रहामयातनामिति पूर्वं प्रदर्शितम् ।

वस्तुनिर्देशपटले यस्मात् तदथ कथ्यते ॥ १ ॥ 

अभिवन्द्य गुरुं तत्र नागांश्चानन्तपूर्वकान् । सङ्क्षिप्य विषतन्त्रेभ्यो लोकानां हितकाम्यया ॥ २ ॥ मन्त्रध्यानौषधाद्यैस्तत्प्रतीकारः प्रदर्श्यते । फणिनो घोणसाश्चैव राजिला व्यन्तरास्तथा ॥ ३ ॥ फणिनो द्विविधास्तेषु दिव्या भौमाश्च ते पुनः । ब्राह्मर्णक्षत्रविट्शूद्रा इति सर्वे चतुर्विधाः ॥ ४ ॥

दिव्या ये कद्रुतनयाः सहस्रं कामरूपिणः । किरीटहास्केयूरमकुटाद्यैर्विभूषिताः ॥ ५ ॥
दिव्यमाल्याम्बरालेपा नागाः सर्वे महौजसः ।
तेषामष्टौ प्रधानास्तु शेषवासुकितक्षकाः ॥ ६ ॥ 

कार्कोटकोऽथ पद्मश्च महापद्माभिधानकः । शङ्खपालश्च गुलिको भानुवारादिपालकाः ॥ ७ ॥ सौरिवारस्य पूर्वार्धं शङ्खपालाधिदैवतम् । गुलिकश्चापराधस्य गोप्ता तन्निष्क्रमाश्च ते ॥ ८ ॥

ये नागाः कद्भुतनयाः सहस्रं भोगशालिनः । 

केचित् पातालनिलया भूम्यब्धिगिरिवासिनः ॥ ९ ॥ भुवःस्वर्वासिनः केचिद् यथेष्टनिलयाः परे । शुक्ला रक्ताश्च पीताश्च कृष्णाश्च ब्राह्मणादयः ॥ १० ॥ ०१३ ॥ १. 'सिद्धान्तसारे' ख पाठः, 3. 'या' ख. पाठः