पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२५६ ईशानशिवगुरुदेवपद्धतौ अर्घ्यादिषोडशोद्दिष्टैरुपचौरस्तमर्चयेत् । विभवे सति पूर्वोक्तैर्द्वात्रिंशदुपचारकैः ॥ ७७ ॥ मूलमन्त्रस्य तु पदैस्ताराद्यैस्तु नमोऽन्तकैः । पुष्पैः स्रग्भिरलङ्कृत्य तारपूर्वं श्रियै नमः ॥ ७८ ॥

इत्युत्सङ्गे समासीनां लक्ष्मीं देवस्य पूजयेत् ।

नैवेद्यान्तं च बल्यन्तं होमान्तं वापि शक्तितः ॥ ७९ ॥

सर्वत्रं स्मरगायत्र्या संपूज्योक्तोपचारकैः ।

यथाशक्ति जपेन्मन्त्रं हस्तस्थचुलुकोदकम् ॥ ८० ॥

गन्धपुष्पान्वितं कृत्वा जानुभ्यामवनिं गतः ।
देवस्य दक्षिणे हस्ते जपादिफलमर्पयेत् ॥ ८१ ॥ 

एवं नित्यार्चनं कृत्वा शक्त्या विप्रांश्च भोजयेत् ।

स्वयं च भुक्त्वा शेषेण कृतकृत्यो भवेन्नरः ।। ८२ । 

हृषीकेशः स्वयं साक्षात् पुरुषोत्तम उच्यते । तस्य मान्मथबीजं तु मन्त्रस्त्वकाक्षरः स्मृतः ॥ ८३ ॥

स्मरबीजं ततो व्योम सप्तमस्वरसंयुतम् !

श्वेतो वामाश्रियुक्तश्च ब्रह्मा रुद्रः स्वरान्वितः ॥ ८४ ॥ दीर्घो बकश्च हृदयं मन्त्रोऽष्टार्णः प्रकीर्तितः ।

त्रैलोक्यमोहनश्चैष साधनाद्यं पुरोदितम् ॥ ८५ ॥
स्मरबीजयुतैर्दीर्धैः स्वरैरङ्गानि जातिभिः । 

जपतः सर्वकामानि भवन्ति नचिरादिव ॥ ८६ ॥

तारं हृत् साक्षिकुम्भं च श्वेतश्वोमापतिस्त्वतः ।
सोष्ठाम्भः कर्णगं शुक्लं रक्तं पार्श्वमथाषढी ॥ ८७ ॥ 

सोष्ठं त्वक् च महाकालॆः खं दीर्घं छगलण्डकः ।

दीर्घः पिनाकी वाली च स्वाहान्तोऽष्टादशाक्षरः ॥ ८८ ॥
मन्त्रो निरङ्गावरणो ह्यन्नाधिपतिसंज्ञितः ।

ऋषिस्तु गौतमश्च्छन्दो धृतिर्विष्णुश्च दैवतम् ॥ ८९ ॥ १. 'क्षिसंयुक्तः न', २. 'लं' क. पाठः. ३. 'खग', ४. 'क' ख पाठः