पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ ईशान शिवगुरुदेवपद्धतौ प्रसारितस्य वामस्य करस्याग्रं शनैः शनैः । वामप्रकोर्पराक्रान्तकोर्परस्येतरस्य च || ५१ ॥ ज्येष्ठातर्जनिकाग्राभ्याममं स्पृष्ट्वा प्रसार्य तु । शार्ङ्गमुद्रा भवेदेषा शार्ङ्गपाणेः प्रियङ्करी ॥ ५२ ॥ वामेतरभुजद्वन्द्वमुष्ट्येकीकरणान्मता । गर्भितप्रसृताङ्गुष्ठा मुद्रा मुसलसंज्ञिता || ५३ ॥ वाममुष्टेस्तु तर्जाग्रं ज्येष्ठिकाग्रे निधाय तु । अन्यमुष्टिनिसृष्टेन तर्ज्यन्यग्रेणं संस्पृशेत् || ५४ ॥ [मन्त्रपाद: वामाङ्गुष्ठस्य मूलं तु पाशमुद्रेयमीरिता । तर्जनीं वाममुष्टेस्तां प्रसृतां पञ्चशाखिना ॥ ५५ ॥ मुष्टिरूपेण चान्येन गृहीत्वा तस्य तर्जनीम् । आकुञ्चिताग्रां#पुनर्निर्दिष्टम् [[]] कृत्वा स्यान्मुद्रा चाङ्कुशरूपिणी ॥ ५६ ॥ मध्यमानामिके मध्याज्यैष्ठिकाभ्यां निपीडिते । कनीयसीमूलयुग्मे विनिधाय प्रदेशिनीम् ॥ ५७ ॥ श्रीवत्समुद्रा नाम्नैषा श्रीवत्साकप्रियङ्करी । अधोमुखस्य वामस्य करस्यापि कनीयसीम् ॥ ५८ ॥ अनामामन्यतर्जन्या कनीयस्या यथाक्रमम् । आबद्ध्य दक्षिणज्येष्ठामध्यमानामिकात्रयम् ॥ ५९ ।। ऊर्ध्वाग्रं वामतर्जन्या संयुतं प्रविधाय च । ज्येष्ठान्याङ्गुलिमूलेषु वामज्येष्ठां च मध्यमाम् ॥ ६० ।। प्रविन्यसेदतिश्लिष्टा मुद्रेयं कौस्तुभात्मिका । द्विहस्तज्येष्ठिकाक्रान्ततर्जाग्राभ्यां गलांदितः ॥ ११ ॥ आपादं संस्पृशेन्मुद्रा वनमालाभिधा मता । विपर्यस्तौ करौ कृत्वा मिथो ग्रथितबालकौ ॥ ६२ ॥ सुश्लिष्टायततर्जन्यौलम्बितागुष्ठ युग्मको । कुटिलानामिकामध्याकल्पितोभयपक्षकौ ॥ ६३ ॥ १. 'स्य', २. 'ध्यो' ख. पाठः, ३. 'धं' क. पाठ:.