पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्र्यैलोक्यमोहनवामनमन्त्राधिकारः ] पूर्वार्धे अष्टात्रिंशः पटलः । ततो गन्धाक्षतान् पुष्पं पद्ममध्ये निधाय तु । पुष्पाञ्जलिकरो मूलं स्मरन् नाभिसरोरुहात् ॥ ३९ ॥

उत्कृष्य तत् परं ज्योतिर्नीत्वा हृत्कमलं ततः । 

आनन्दज्ञानमात्रं तन्नीत्वोर्ध्वं च हृदाम्बुजात् ॥ ४० ॥

कण्ठभ्रूमध्यगं बिन्दुं ततश्च द्वादशान्ततः ।
नीत्वाच्च बिन्दुमार्गेण संयोज्य कुसुमाञ्जलौ ॥ ४१ ॥

योगपीठस्थमूर्तौ वा स्थण्डिलाज्येऽथ वा न्यसेत् ।

अम्भोजाङ्कुशमुद्रे द्वे बद्ध्वाभिमुखतां नयेत् ॥ ४२ ॥ गदाचक्राख्यमुद्राभ्यां सन्निधानं च रोधनम् ।
तत्तत्प्रार्थनया युक्त्या भक्त्या देवस्य कल्पयेत् ॥ ४३ ॥ 

मूलेन व्यापकं कृत्वा मुद्राश्चैताः प्रदर्शयेत् । उत्तानया दक्षिणया सारिताङ्गुष्ठया परम् ॥ ४४ ॥ मुष्टयाङ्गुष्ठं गृहीत्वा तु तर्जन्यादिचतुष्टयम् । प्रसार्य वामहस्तस्य परतर्जनिकायुतम् ॥ ४५ ॥ कल्पयेच्छ्ङ्खमुद्रैषा हरेः प्रीतिकरी मता ।

अन्योन्यसंमुखौ हस्तौ विधाय प्रसृताङ्गुली || ४६ ॥

चामेतराङ्गुष्ठगतौ व्यत्यासाद् बालिकाद्वयम् । चक्रायुधप्रीतिकरी चक्रमुद्रा भवेदियम् ॥ ४७ ॥ अन्योन्याभिमुखौ हस्तौ मिथश्च ग्रथिताङ्गुली । प्रसार्य मध्यमे युक्तौ गदामुद्रेयमीरिता ॥ ४८ ॥ कनिष्ठानामिकायुग्मं ज्येष्ठयाबध्य कुञ्चितम् । तर्जनीमध्यमायुग्मं मुक्त्वा स्यात् खड्गसंज्ञिता ॥ ४९ ॥ अङ्गुष्ठेन समाबध्य कनिष्ठानामिकाद्वयम् । मध्यमाग्रसमाक्रान्तं तर्जन्यग्रयुतस्य च ॥ ५० ॥ ३५३ १. 'द्वाचैताः प्रदर्शयेत्' ग. पाठः. २. 'मिथश्च प्रथिताङ्गुली', ३. 'न्त' कु. ग. पाठः.