पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथाष्टात्रिंशः पटलः । अथाखिलार्थसंसिद्ध्यै वक्ष्ये त्रैलोक्यमोहनम् । मन्त्रं ससाधनध्यानस्नानपूजार्चनादिकम् ॥ १ ॥ तारं हृत्पुरुशब्दश्च सदन्तः षोयुगापढी । सोनन्तश्च महाकालौ प्रतिरूपपदं धराम् ॥ २ ॥ क्ष्मी (णिहाललचस्वः ? निवास सकल) जगत्क्षोभण ! सर्वस्त्री हृदयदारण! त्रिभुवनमनोन्मादकर, सुरासुरमनुजसुन्दरीजनमनांसि तापय दीपय शोषय मारय स्तम्भय आमय द्रावय आकर्षय परमसुखसौभाग्यकर, सर्वकामप्रद, अमुकं हन चक्रेण गदया खड्गेन सर्वान् भिन्द पाशेन कड्ढ अङ्कुशेन ताडय तुरु किं तिष्ठसि तावद् यावत् समीहितं में सिद्धं भवतु हुं फट् । नमः पुरुषोत्तमा- प्रतिरूप लक्ष्मीनिवास, हृदयाय नमः । सकलजगत्क्षोभण, सर्वस्त्री हृदयदारण शिरसे ठठ । त्रिभुवनमनोन्मादकर शिखायै वषट् । सुरासुरमनुजसुन्दरीज- नमनांसि तापय दीपय शोषय मारय स्तम्भय द्रावय आकर्षय कवचाय हुम् । परमसुखसर्वसौभाग्यकर सर्वकामप्रद अमुकं हन चक्रेण गदया खङ्गेण सर्वान् भिन्द पाशेन कड्ढ अस्त्राय फट् | तुरु किं तिष्ठसि तावद् यावत् समीहितं सिद्धं भवति हुं फट् नेत्राभ्यां वौषट् । स्वयमेवेत्थमङ्गानि नेत्रान्तानि भवन्ति षट् । नमस्त्रैलोक्यमोहन, हृषीकेशाप्रतिरूप, मन्मथ सर्व स्त्रीहृदयाकर्षण गच्छ नम इति व्यापकस्य मन्त्रः | आवाहनमन्त्रश्चायम् | १. वत्सो नामास्य तु ऋषिः काम इत्यपि केचन ॥ ३ ॥ अत्युत्कृतिर्भवेच्छन्दो हृषीकेशश्च दैवतम् । मन्त्रमाचार्यतो लब्ध्वा स्नानानुष्ठितनैत्यकः || ४ || विष्णुमभ्यर्च्य पञ्चाशत्सहस्रं प्रजपेन्मनुम् । नाभिने जले स्थित्वा जलैरञ्जलिपूरितैः ॥ ५ ॥

स्वमूर्ध्नि जपितैर्मन्त्री सहस्रमभिषेचयेत् ।

ततस्तु वैष्णवे वह्नौ जुहुयात् पायसं घृतम् || ६ || ' नासान्तश्च', २. 'सि तांसि ता' ख पाठः . HH