पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४८ ईशानशिवगुरुदेवपद्धतौ [मन्त्रपाठे सुदर्शनमत्राधिकारः] उद्धारो व्यत्ययों वास्य कर्तव्यो नेति दर्शनात् । ओं नमो भगवते महासुदर्शनाय महाचक्रराजाय रक्ष मम शत्रून् नाशय दर दारय भिन्धि ज्वल ज्वालय शतसहस्रकिरणप्रज्वलितशिखादुष्प्रेक्ष्य दारुण दुष्टदेहनात्मक देह पच लग पातय भर्ज त्रासय सुदुष्टे पुरुयन्त्रांश्चूर्णय परप्रयुक्तमन्त्राणामष्टादशकं स्फोटय परसिद्धिं वो गृह्य परमन्त्रान् संहर रर मद्यमांसामिषरुधिर भोजनप्रिय तीक्ष्णत्रिदिवसुरासुरेन्द्रसङ्ग्रामयात्रात्तमथन शङ्खचक्रचापोद्यतकर नरनारायण वरास्त्र लिहि पिलि मिलि बिलि मल मर्द यक्षराक्षसभूतपिशाचकूश्माण्डशकुनी युवतीविनायक ज्वरसर्वलूतविषविष्कम्भकान् हर मार ललघु त्रिविक्रम बलिन वरपुराण विष्वक्सेन करवराय सग्रहान् मोटय भज आविश कडु विष्णुकवचमनुस्मर ठठ । अस्यास्त्रबीजम् । आचक्राय ठठ हृदयम् । विचक्राय ठठ शिरः । सुचक्राय ठठ शिखा । सं- चक्राय ठठ कवचम् | महाचक्राय ठठ अस्त्रम् । ऋषिरस्य अहिर्बुध्निः धृतिश्छन्दोऽस्य दैवतम् ॥ १०३ ॥ महाविष्णुः पुरश्चर्या सहस्रं चाष्टकं जपम् ।

गुरुवक्रादधीतोऽयं पाठमात्रेण सिध्यति ॥ १०४ ॥

अथ कृष्णचतुर्दश्यामहोरात्रमुपोषितः । दक्षिणाभिमुखो भूत्वा श्मशाने वा चतुष्पथे ॥ १०५ ॥ अर्धरात्रे जपेन्मन्त्रं यद्यदिष्टं तदाप्नुयात् । शत्रुनिग्रहकामस्तु जुहुयात् सर्षपैर्निशि ॥ १०६ ॥ त्रिसन्ध्यमष्टशतकं राजीहोमेन किङ्कराः । भवन्ति रक्षोभूताद्याः साधयन्ति च वाञ्छितम् ॥ १०७ ॥

इत्थ सुदर्शनमनोरुदितं विधानं सर्वार्थसाधनमिदं हरिभक्तिभाजाम् ।
येनापमृत्युविपदो विलयं प्रयान्ति क्षुद्रामयग्रहकृताश्च जपादिकृत्यैः ॥ १०८ ॥
इति श्रीमदाशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे मन्त्रपादे सौदर्शनः सप्तत्रिंशः पटलः ।

१. 'दहनह', २. 'ष्ठ' ख. पाठ:. ३. 'क्तानां म' क. ग. पाठः, ४. 'ब', ५. 'क' ख. पाठः,