पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सुदर्शनमन्त्राधिकारः ] पूर्वार्धे सप्तत्रिंशः पटलः । सिंहो व्याघ्रो वराहश्च गर्दभोऽथ गजो वृषः । श्वा चेति करणानि स्युस्तेषु श्वा विष्टिरुच्यते ॥ ९२ ॥ विष्टिध्यानं च- सजलजलदमूर्तिः पिण्डितस्थूलजङ्घा कपिलनयनकेशी चक्रदंष्ट्रोच्चघोणा । मुखकुहरविनिर्यद्वह्निपिण्डैः समस्तं भुवनमिह दहन्ती तूर्णमायाति विष्टिः ॥ ९३ ॥ अथ सुदर्शनयन्त्रं- षट्कोणमध्यगततारगसाध्यनाम मन्त्रार्णकोणमथ सन्धिगताङ्गषट्कम् । बाह्याम्बुजाष्टदलकेसरगस्वराढ्यं साष्टाक्षरं तदथ षोडशपत्रमब्जम् ॥ ९४ ॥ तत्कादिवर्णयुगकेसरकं दलेषु सद्वादशार्णकवचास्त्रठयुग्म + + बाह्ये सबिन्दुशिवकोपविदर्भिताख्यं त्रिः पाशवेष्टितमथाङ्कुशकेन तद्वत् ॥

भूमण्डलं त्वथ बहिर्विधिना लिखित्वा भूर्जेऽथवा कनकपत्रसितांशुकादौ ।
हुत्वाभिपूज्य कनकेन गुलीकृतं तद् रक्षाकरं सकलभीतिहरं धृतं स्यात् ॥
वृत्ते मध्ये लिखेत्तारं षडराणि च तद्बहिः ।

मन्त्राक्षराणि षट्केषु सन्धिष्वङ्गानि च क्रमात् ॥ ९७ ॥

सम्पूज्य साज्यं कुम्भेन घृतं श्वासज्वरापहम् ।

बिल्वपङ्कजयोः पञ्च पृथगङ्गानि यत्नतः ॥ ९८ ॥ दग्ध्वा तन्मन्त्रितं भस्म क्षुद्ररोगग्रहापहम् । चतुः क्षीरत्वचो ब्राह्मीं लक्ष्मीचन्दनरोचनाः ॥ ९ सुरसाबिल्वदूर्वाश्च कुशापामार्गराजिकम् । गुग्गुलं पद्मकं कुष्ठं कान्तं सत्कुङ्कुमं निशाम् ॥ १०० ॥ गोमयेन तु मिश्रित्य गव्यैरन्यैश्च संयुतम् । दग्ध्वा सुदर्शनेनाग्नौ तद्भस्मानेन मन्त्रितम् ॥ १०१ ॥ क्षुद्रघ्नमपमृत्युघ्नं श्रीमदारोग्यदं परम् । महासुदर्शनो मन्त्रो लिख्यते वै यथास्थिति ॥ १०२ ॥ १. 'वे ॥ सजल', २. 'के गु' ख. पाठः.