पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेवपद्धतौ [मन्त्रपाद: तज्ज्वालाभस्मसाद्भूतं विषं ध्यायन् जपेदपि ।

प्लावयेच्चामृतेनाथ गरलानि विनाशयेत् ॥ ५५ ॥
क्षुद्रग्रहादिशान्त्यर्थमिष्ट्वा विष्णुं सुदर्शनम् ।
आज्यापामार्गसमिधः पञ्चगव्यचरुं तिलान् ॥ ५६ ॥

प्रत्येकाष्टसहस्रं तु जुहुयाच्च चरौ घृतम् | सम्पात्याष्टसहस्रं तु जपित्वा प्राशयेच्चरुम् || ५७ ||

क्षुद्रभूतहरुजो नश्यन्त्यन्येऽप्युपद्रवाः । 

तद्भूत्या लेपनं रक्षःक्षुद्ररोगादिशान्तिदम् ॥ ५८ ॥

अपामार्गासमिधः पञ्चगव्यचरुं घृतम् ।
हुत्वासितारुणैः सूत्रैः परिस्तीर्य तु मण्डले ॥ १९ ॥
अग्रसन्धिषु कुम्भांस्तु मध्ये दिक्षु नव न्यसेत् ।
चतुः क्षीरत्वचां तोयं नवरत्नानि काञ्चनम् ॥ ६० ॥ 

गन्धपुष्पाक्षतयुतान् वस्त्रस्त्रग्दामवेष्टितान् । आसनादिक्रमात् तेषु स्वावाहितसुदर्शनान् ॥ ६१ ॥

इष्ट्वा तैः स्नपयेत् साध्यं तत्सूत्रग्रथितं तु वा । 

साध्यहस्ते शिखायां वा कण्ठे वा कलयेज्जपन् ॥ ६२ ॥

क्षुद्रग्रहार्मेयध्वंसि स्नपनं श्रीकरं च तत् ।

अत्युच्च शुक्रेऽङ्गुलीयं शतमानसुवर्णकम् ॥ ६३ ॥ कृत्वायुताज्यहोमेन सम्पात्य जपितं पुनः । तद्धारणेन रक्षा स्यादारोग्यायुष्करं तु तत् ॥ ६४ ॥ मेषचापैहरिस्थेऽर्के शुक्लाष्टम्यां भृगोर्दिने ।

शिलां शुक्लां तु जपितां निखनेदभिजित्क्षणे ॥ ६५ ॥ 

उदङ्मुखो जपेन्मन्त्रं क्षेत्रद्रोहो विनश्यति ।

मेषस्थेऽर्के दशाहान्ते कीलमर्धोदये रवेः ॥ ६६ ॥
आश्विनं निखनेन्मन्त्री क्षेत्रद्रोहादिशान्तये । 

युग्मचापोदये कीले भौमांशे पुष्यमैत्रयोः ॥ ६७ ॥ १. 'ज्जपेद', २. 'भ', ३. 'पिं' ख. पाठः. ४