________________
सुदर्शनमन्त्राधिकारः ] पूर्वार्ध सप्तत्रिंशः पटलः । सर्पिः श्रुतधरो वाग्मी कविः प्राज्ञश्च जायते । ब्राह्मे मुहूर्ते वा लक्षद्वयमभ्यस्य वाक्पतिः ॥ ४२ ॥
अञ्जलिस्थाम्भसा सेकादायुर्लक्ष्मीं च विन्दति
आज्यक्षीराहुताद् गोमान् वासांसि कुसुमैर्हृतात् ॥ ४३ ॥ हैरण्यशतनिष्केण चक्रं कुण्डे निधाय च ।
आराध्याङ्कोलतैलेन हुत्वा राष्ट्रं स्वसाद्भवेत् ॥ ४४ ॥ त्रिरात्रोपोषितः कृष्णद्वादश्यादि घृतेन च ।
हुत्वा लक्षं निधिं पश्येदथवा महतीं श्रियम् || १५ ||
क्षीराक्तैर्वेतसैर्हृत्वा वृष्टिर्भवति भूयसी । बिलद्वारेऽष्टलक्षं तु जपित्वाखिलसिद्धिभाक् ॥ ४६ ॥ पर्वताग्रेऽथवारण्ये वसुलक्षं जपेन्मनुम् । अष्टाधिकसहस्रं तु हुत्वाङ्कोलाज्यमादरात् ॥ ४७ ॥
आकाशपतितं विन्देद् दिव्यं तु गुलिकाद्वयम् । एकां कट्यां निबध्नीयादेकां तु वदने क्षिपेत् ॥ ४८ ॥ खेचरो वा मनोवेगो युवा स्याच्चिरजीवनः ।
वटाधः कृतिसाहस्रजपाच्चार्कैधसां पुनः ॥ ४९ ॥ हुत्वा तु पञ्चसाहस्रं यक्षिणी वशगा भवेत् ।
चक्रं हस्ततले ध्यात्वा षडुर्णान् षडरेष्वथ ।। १० ।। तज्ज्वालादह्यमानं तु दष्टं स्पृष्ट्वा विषं हरेत् । पुराणदष्टमन्यं वा पञ्चमार्णेन ताडयेत् ॥ ५१ ॥
स्तोभो भवति च स्वस्थमावेशयति च ध्रुवम् । मण्डले चतुरश्रे तु चक्रं चूर्णैर्विलिख्य तु ॥ ५२ ॥
अरेषु मन्त्रमङ्गानि सन्धिष्वाख्यां ततोदरे । इष्ट्वा तस्मिन् ग्रहग्रस्तं विन्यस्य प्रजपन् मनुम् ॥ ५३ ॥ भस्मना पञ्चमार्णेन क्षेपादाविश्य नश्यति ।
शङ्खमुद्राधरो ध्यात्वा शङ्खाभं च सुदर्शनम् ॥ ५४ ॥
१. 'दू' खा. पाठः. २. 'तु' क. पाठः ३. 'ल' ख. पाठ, २४३