________________
૨૪૨ ईशानशिवगुरुदेवपद्ध्तौ मन्त्रपादः नीत्वा बिन्दु च तन्मूर्ती हृत्पद्यान्तं नियोजयेत् ।
प्रणवेन च मूलेन द्वादशान्तामृताप्लुतम् ॥ २९ ॥
निरुध्य चामृतीकृत्य कोणेष्वङ्गानि विन्यसेत् ।
अस्त्रं च दिग्दलात्रेषु नेत्रं च पुरतो न्यसेत् ॥ ३० ॥
पीठाद् बहिः पङ्कजेषु क्रमादष्टायुधान् न्यसेत् । [तद्वा दश लोकेशान् पूजयेत् सायुधादिकान् ॥ ३१ ॥ षडरस्य तु चक्रस्य ज्वालामालाकुलस्य तु । मध्यस्थां चक्रमूर्तिं तां यजेन्मुख्योपचारकैः ॥ ३२ ॥ नैमित्तिकासु पूजासु पूर्व चक्रस्य तूत्तरे । विष्णुं यथावदभ्यर्च्य पश्चाञ्चकं तु पूजयेत् ॥ ३३ ॥
मनसा वा यजेद् देवं नित्यपूजां न हापयेत् ।
पुरश्चर्या विनाप्येष नित्यपूजाजपादिभिः ॥ ३४ ॥ भक्तस्यं साधयत्यर्थान् किं पुनः पूर्वसेवया । विनियोगास्तु लिख्यन्ते साधकानां हिताय वै ॥ ३५ ॥ ब्रह्मश्रियं तु लभते पालाशसमिधो हुतात् । पर्वतांग्रे जपित्वा षट्सहस्रं तु सिताम्बुजैः ॥ ३६ ॥ बैल्वैः फलैर्वा पत्रैर्वाप्ययुतं श्रियमश्नुते । राजश्रियं वा राज्यं वा विन्दे लक्षाज्यहोमतः || ३७ ॥ ब्राह्मणादिस्तु वशयेत् समिद्भिस्तु पलाशजैः ।
अश्वत्थोदुम्बराकैश्च लवणादखिलानपि ॥ ३८ ॥
लावणीं तु प्रतिकृतिं सप्राणां क्षौद्रसेचिताम् । दक्षिणाङ्ङ्घ्रयादि जुहुयात् सहस्रं सर्ववश्यकृत् ॥ ३९॥
दूर्वाभिरायुश्छिन्नाभिरपमृत्युजयो हुतः ।
पौर्णमास्यां मघायां तु ग्रहणे वेन्दुसूर्ययोः ॥ ४० ॥ उपोष्य पूर्वदिवसं भस्मोद्धूलितविग्रहः । अहोरात्रं तु जपितं पिबेद् भसितमिश्रितम् ॥ ४१ ॥ १. 'न वाहये' ख. पाठः