पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सुदर्शनमत्राधिकारः ] पूर्वार्धे पत्रिंश: पटलः । रक्षोभूतपिशाचाद्यैः सर्पाद्यैर्वा न बाध्यते ॥ ४० ॥ तेनालब्धाञ्जनेनाक्ष्णोः पश्येद् भूतादिकान्निधीन् ।

श्रुतं क्षीरं वचां चापि सप्तवाराभिमन्त्रितम् ॥ ४१ ॥ 

प्राश्य श्रुतधरो वाग्मी कविः प्राज्ञश्च जायते । स्वैक्यं ध्यायन् जपेद्देवं भयेभ्योऽपि प्रमुच्यते ॥ ४२ ॥ कल्पान् विचार्य बहुधा हरितन्त्रसिद्धान् वाराहमन्त्र विषयोऽपि च मन्त्रराजः ।

सन्दर्शितो हवनसाधनयागयुक्तो

धर्मार्थकामफलवाञ्छितकल्पवृक्षः ॥ १३ ॥ इति श्रीमदीशान शिवंगुरुदेवपद्धतौ तन्त्रसारे श्रीवराहराजो नाम पट्त्रिंशः पटलः । २३९ अथ सप्तत्रिंशः पटलः । भृगुर्व्योम चे सानन्तं वह्निः शुक्लं ततोऽनलः ।

कवचास्त्रे च षड्वर्णस्तारादिः स्यात् सुदर्शनः ॥ १ ॥ 

अहिबुध्निर्मुनिश्छन्दो गायत्रं विष्णुदैवतम् । · सुदर्शनः स्वयं वा स्यात् लिख्यन्तेऽङ्गानि च क्रमात् ॥ २ ॥ आविसुध्यश्च महासुदर्शनशब्दश्च चक्रजातियुता ।

ज्वाल(चक्रं च तथा मन्त्रस्याङ्गानि च क्रमेण स्युः ॥ ३ ॥

हृदयाते तु चक्राय विद्महेति पदं ततः । ततः सहस्रज्वालाय धीमहे तन्न इत्यपि ॥ ४ ॥ अरिवारितप्रशब्दो गायत्री चोदयादिति ।

मन्त्राक्षराणि षट् चापि शक्रगोपारुणानि च ॥ ५ ॥ 

श्वेतं कृष्णं पिङ्गलं च पीतं विद्युत्प्राभारुणे । हृदयादिषडङ्गानि वर्णतः परिभावयेत् ॥ ६ ॥ १. 'ब', २. 'नव' ख., 'नचक्रश्च' ग. पाठः .