पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૨૨૮ ईशान शिवगुरुदेवपद्धतौ मन्त्रपादे ओं नमः क्षीरोदार्णवस्थाय नमः ठठ | अनेन स्नापयेद् वस्त्रं भूषणाद्यं समर्पयेत् । ओं नमो देवादिदेवाय मधुसूदनीय सुरभिगन्धविलेपनप्रियाय गृह ठठ | गन्धं दद्यादनेनाथ ओं नमो देवादिदेवाय गृह्ण ठठ । पुष्पैश्चानेन पूजयेत् ॥ ३३ ॥ ओं नमो हृषीकेशाय भक्तवत्सलाय गृह्ण ठठ । दद्यादनेन वै धूपं ओं नमः परं ज्योतिषे ठठ । आरात्रिकमनेन च । ओं नमः परमवासुदेवाय गृह ठठ | दद्यादनेन नैवेद्यं तथैवाचमनीयकम् ॥ ३४ ॥ स्वाख्याभिः परिवारांश्च पूजयेच्च मनुं जपेत् । आवाह्य देवं हुत्वाग्नौ ओं नमो देवादिदेवाय श्वेतद्वीपप्रियाय गरुडवाहन आगच्छ ठठ । इत्यनेन क्षमापयेत् ॥ ३५ ॥ वटे जपित्वा हुत्वा च यक्षिणीं वशयेद् ध्रुवम् । पाताले कृतिसाहस्रैरमरानपि लक्षितः ॥ ३६ ॥ द्विगुणं तु कलौ होमप्याद्यं सिद्धिदं स्मृतम् ।

अपमृत्युं जयेदाम्रपर्णगव्याज्यहोमतः ॥ ३७ ॥

[ सुधापूर्णे ह्रदे देवं स्थितं ध्यात्वामृताम्बुभिः । सिञ्चन्तं साध्यशिरसि ध्यात्वा हन्याद् विषादिकम् ॥ ३८ ॥ गन्धपुष्पादिकं यस्मै दद्यात् सप्ताभिमन्त्रितम् । स स वश्यो भवेदस्य शय्याजाप्येन चाङ्गना ॥ ३९ ॥ मन्त्रालब्धं तु निर्माल्यं हरेः शिरसि धारयन् । १. 'य सुर' ख. पाठः.