पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वराहमन्त्राधिकारः ]. पूर्वार्धे षट्त्रिंशः पटलः । २३७ शुद्धात्मा मन्त्रन्यस्तात्मा । ओं नमो भगवते । नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयादिति गायत्र्या द्रव्यशोधनम् । अर्ध्यादीन्यनयापूर्य द्रव्याद्यं प्रोक्ष्य तज्जलैः । आधारशक्तिं कूर्मं चाप्यनन्तं पृथिवीमपि ॥ २३ ॥

योगपीठं च धर्मादीन् सत्त्वादीन् मण्डलानि च । 

पद्मं चात्मादिकाः शक्तीर्विमलाद्याश्च पूजयेत् ॥ २४ ॥

पद्ममध्ये सुपर्णं च तस्य स्कन्धे तथाम्बुजम् । 

ओं नमो देवादिदेवाय नारायणाय विश्वरूपायानन्तशक्तये लक्ष्मीदयित सुरासुरपूजितागच्छ सान्निध्यं कुरु ठठ । ध्यायेदष्टभुजं देवं गरुडे हेमप्रभम् ॥ २५ ॥

शङ्खचक्रगदाशार्ङ्गखड्गं च मुसलं क्रमात् । 

पाशाङ्कुशौ चोभयतो दधतं पीतवाससम् ॥ २६ ॥

श्रीवत्सकौस्तुभोरस्कं मकुटाद्यैर्विभूषितम् ।

वनमालाधरं चारुस्फुरन्मकरकुण्डलम् ॥ २७ ॥

तारेण स्वहृदम्भोजात् परं ज्योतिश्चिदात्मकम् ।
आवाहयेद् यथापूर्वम्

ओं नमो नारायणाय सुप्रतिष्ठितो भव ठठ । अनेन स्थापयेदपि ॥ २८ ॥ पीठाष्टदिक्षु. पूर्वाद्यं गणेशं च सरस्वतीम् ।

गुरुं च नारदं वा विदिक्ष्वङ्गान्यनुक्रमात् ॥ २९ ॥
तद्वाह्यावरणे दूतीरष्टदिक्षु क्रमात् स्थिताः ! 

पद्म वाचं रतिं प्रीतिं तुष्टिं पुष्टिं यशस्विनीम् ॥ ३० ॥

शान्तिं च पुष्टिं मुकुरचामराम्यकरां यजेत् । 

तद्वा चापि शङ्खादीनष्टावष्टदिशं बहिः ॥ ३१ ॥ लोकेशान् सायुधगणान् विष्वक्सेनं च पूजयेत् । नमः पुण्डरीकाक्षाय त्रैलोक्याधिपतये गृह ठठ । अनेनार्घ्यं च पुष्पादीन् दद्यादष्टाक्षरेण तु ॥ ३२ ॥ १. 'झं', २. '२' ख. पाठः .