पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

। ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः महावराहाय हुं फट् ठठ । ओं नमो भगवते वामनाय हुं फट् ठठ । ओं नमो भगवते त्रिविक्रमाय हुं फट् ठठ । ओं नमो भगवते वासुदेवाय हुं फट् ठठ । ओं नमो भगवते नारसिंहाय हुं फट् ठठ । इति पञ्चाङ्गानि । ओं नमो भगवते महावराहाय शशिकोटिकुटिलधवलदंष्ट्रोद्धृतवसुन्धराय महाघोषणाय घननि- भनिहतहिरण्याक्षाय ब्रह्माण्डव्यापिने सुरासुरमायाय पुरुष गर्ज महाकोड ! नारायण ! हुं फट् ठठ । हृदयम् । ओं नमो भगवते वामनाय सहस्रशरीराय वञ्चितदैत्याधिपाय सर्वमायाधिपतये भक्तवत्सल ! बन्ध रक्ष मायानारायण ! हुँ फट् ठठ । शिरः । ओं नमो भगवते त्रिविक्रमाय क्रमत्रयाक्रान्तत्रिभुवनाय पादाधारितब्रह्माण्डाय बलिनियाम (या ? का ) य सन्त्रस्तसुरासुरवीक्षितायादृष्ट-. पर्यङ्काय गङ्गा (पिना?पता ) कोज्वलचरणाय जय विजय महानारायण ! हुं. फट् ठठ | शिखा । ओं नमो भगवते वासुदेवाय शङ्खचक्रगदाधराय दैत्या - न्तकाय पीतवाससे गरुडवाहनाय यदुप्रवीराय चन्द्रप्रभाय बाणासुरबाहुवन- दावाग्नये महाजलदश्यामाय लक्ष्मीदयित! विश्वरूप ! नारायण! कुरु रक्ष वज्राद्युद्भेद्य हुं फट् ठठ । कवचम् । ओं नमो भगवते नारसिंहाय प्रदीप्तसूर्यकोटि- सहस्रसमतेजस्रे दुष्प्रेक्ष्याय महाकल्पाग्निरूपाय ज्वालामालिने पिङ्गलस्टाय क्षु- भिततडित्सहस्रसंपातितभीमरूपिणे दिनकरमण्डलसदृक्षाय स्वकरनखविदारि- तदैत्याधिपतिवक्षःस्थलाय क्षुभितसमुद्रमेघनादभीमबृंहितत्रिभुवनाय हुल गर्ज गर्ज | अमोघशक्ते ! नृसिंह ! नारायण ! हुं फट् ठठ । अस्त्रम् । ऋषिस्तु नारदश्छन्दो हात्युत्कृतिरुदाहृता ॥ १८ ॥ देवता च हृषीकेशः पुरश्चर्याकृते जपेत् ।

सहस्रपञ्चकं मूलमङ्गान्यस्माद् दशांशतः ॥ १९ ॥

घृताक्ताश्वत्थसमिधां सहस्रं जुहुयादपि ।
अङ्गानां तद्दशांशेन कृतपूर्वत्रतो भवत् ॥ २० ॥ 

ततः प्रत्यक्षतो देवं पश्येत् स्वप्नेऽथवा ह म् । अर्चना स्नात्वा मूलाङ्गमन्त्रैश्च क्षालिताङ्घ्रिकरद्वयः ॥ २१ ॥ आचम्याच गृहद्वारि क्षेत्रपं परिवर्तकान् । चण्डे प्रचण्डद्वारश्रीवास्त्वीशान् पूर्ववद् यजेत् ॥ २२ ॥ १. 'ण्डे' ख. पाठः.