पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वराहमन्त्राधिकारः ] पूर्वार्धे षट्त्रिंशः पटलं: । यद् यदिष्टं भवेत् तस्य तत्तदुद्दिश्य - जुहृतः ॥ १३॥

जपतों ध्यायतश्चैवं सिध्यत्येव न संशयः । 

महावराहमन्त्राधिकारः । द्विरण्डो वामकर्णाढ्यः सर्गी वाराहको मनुः ॥ १४ ॥ ऋषिः सांशिकनामास्यच्छन्दो गायत्रमेव हि । विष्णुर्वै देवता दीर्धैः स्वरैरङ्गानि च स्वयम् ॥ १५ ॥

शुक्लप्रतिपदारभ्य लक्षमाज्याशनो जपेत् ।
दशांशं जुहुयादाज्यं सिद्धमन्त्रस्ततो भवेत् ॥ १६ ॥
ऋषिश्च्छन्दो दैवतानि ध्यानाद्यं च पुरोदितम् ।

महावराहमन्त्रोक्तो विनियोगोऽस्य चोदितः ।। १७॥ वराहैकाक्षरविधिः । तारश्वाष्टाक्षरश्वादिदेवायेति पदं ततः । २३५ ( भुषुरोत्तफाशँ ?) महते सर्वतेजसां निधये त्रिगुणाय गुणबाह्याय सर्व- लिङ्गिने सर्ववर्णाय त्रिभुवनोत्पत्तिस्थितिप्रलयकर्त्रे सुरासुरपूजिताय व्यक्ताव्यक्ताय सर्वप्रहरणायुधाय सर्वारिविनाशनाय सर्ववरप्रदाय सर्वानुगतवत्सलाय सर्वपापप्रणाशनाय सर्वमन्त्रविच्छेदनाय सर्वमन्त्रस्फोटनाय सर्वमुद्राप्रभञ्जनाय गरुडवाहनाय शङ्खचक्रगदाधराय महाशार्ङ्गधनुषे देवादिदेव नारायण उज्वल प्रज्वल हन दह् पच छिन्धिं मारय उत्सादय शोषय स्तम्भय द्रावय आकर्षय विद्वेषय उच्चाटय सर्वशत्रून् विध्वंसय विनायकान् नाशय ग्रहां- वर्णय यातुधानान् वित्रासय नागान् मोहय सर्वविषं दह सर्वरोगान् पच आलक्ष्मीमपमार्जय लक्ष्मीमावाहय सौभाग्यं प्रयच्छ त्रैलोक्यं वशमानय सचैकामान् सम्पादय सुरासुरानाह्वय भुवनानि संहर पर्वतांश्चूर्णय समुद्रान् शोषय पृथ्वीं धारये शान्तिपुष्टिकर! अमोघशक्ते देवादिदेव ! नारायण ! मां रक्ष ओं नमो नमः हुं फट् ठठ । अस्य करन्यासमन्त्रः । ओं नमो भगवते १. 'व' ख. ग. पाठः २. 'गि' क. पाठः. ३. 'यणाय' ख. पाउ:०४ 'न्द' क. ख. पाठः ५. 'य सशा' ख. पाठः.